________________
१७. महेन्द्रसूरिचरितम् ।
१४७ धर्मः स्वनामतो वामः शठत्वादनयस्थितिः । पितुः सन्तापकृजज्ञे सूर्यस्येव शनैश्वरः॥ २३६ ।। स पित्रोक्तो धनं वत्स ! जीविकायै समर्जय । मुधा न लभ्यते धान्यं यत्ते' जठरपूरकम् ॥ २३७ ॥ निष्कलत्वात् ततो नीचसंसर्गात् पाठवैरतः । सर्वोपायपरिभ्रष्टोऽभूदिक्षुक्षेत्ररक्षकः ॥ २३८॥ तत्र श्रीक्षेत्रपालोऽस्ति न्यग्रोधाधः सदैवतः । तदर्चानिरतो धर्मः सदासीद् भक्तिबन्धुरः ॥ २३९ ॥ स च स्वस्वामिनो गेहे गतः कचन पर्वणि । मुंश्वात्रेति तदुक्तः सन् प्रोवाच प्रकटाक्षरम् ॥ २४०॥ 5 न वल्भे क्षेत्रपालार्चा विनाऽहं प्रलयेऽपि हि । क्षेत्रं ययौ ततोऽभ्यर्च्य तमूर्छा यावदास्थितः ॥ २४१ ॥ तावदैक्षिष्ट नग्नां स योगिनीं तद्वतेबहिः । क्षेत्रपालप्रसादेन शक्तिं मूर्तिमतीमिव ॥ २४२ ॥ तया चक्षुलतामेको प्रार्थितेनातिभक्तिना । तद्युग्मं रससर्वस्वपूर्ण तस्याः समय॑त ॥ २४३ ॥ तदास्वादप्रमोदेन सप्रसादाऽथ साऽवदत् । किं त्वं घृणायसे वत्स न वा सोऽप्यवदत् ततः ॥ २४४ ॥ न घृणाये महामाये सा ततः पुनराह च । व्यादेहि वचनं तेन तच्चक्रे सादरं वचः॥ २४५॥ 10 सा च तद्रसगण्डूषं सुधावत्तन्मुखेऽक्षिपत् । हस्तं तन्मस्तके प्रादादायातस्य वृतेर्बहिः ॥ २४६ ॥ तिरोधत्त क्षणेनैव सा देवी च गिरां ततः । विमुच्य स च तत्सर्वं तस्मान्निरगमद् द्रुतम् ॥ २४७ ॥ शनैर्गच्छन् पुरः प्राप पूर्वगंगातटं ततः । अचिन्तितमवादीच काव्यं सारस्वतोदयात् ।। २४८ ॥
तथा हिएते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः __ संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः। हेलोवर्तितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तखीकृतनिहुतप्रकटितप्रोद्भूततीरद्रुमाः॥ २४९ ॥ तत उत्तीर्य नावासौ नगरान्तः समागमत् । निजावासं जनन्या च स्नेहादस्पर्शि हस्तयोः ॥ २५० ॥ अद्योत्सूरे कथं प्रागा इति पित्रोदितस्तथा । लसता सोऽनुजेनापि शिरसा हृदि पस्पृशे ॥ २५१ ॥ 20 जामिर्गद्गदशब्दाच' भ्रातर्धातः पुनःपुनः । सर्वानप्यवमन्यासौ रूक्षाक्षरमथावदत् ॥ २५२ ॥
मातर्मा स्पृश मा स्पृश त्वमपि मे मा तात तृप्तिं कृथाः
भ्रातः किं भजसे वृथा भगिनि किं निःकारणं रोदिषि । निःशङ्कं मदिरां पिबन्ति नृपलं खादन्ति ये निर्दया
श्चण्डालीमपि यान्ति निघृणतया ते हन्त कौला वयम् ॥ २५३ ॥ 25 इत्युक्त्वा निर्ययौ गेहात् त्यक्त्वा स्वस्नेहमञ्जसा । अवन्तिदेशसारां स धारां प्राप पुरीं ततः॥२५४॥ स राजमन्दिरद्वारि पत्रालम्बं प्रदत्तवान् । काव्यान्यमूनि चालेखीत् तत्र मानाद्रिमूर्द्धगः ।। २५५ ॥
तद्यथाशम्भुगौँडमहामहीपकटके धारानगर्यां द्विजो
विष्णुर्भटिअमंडले पशुपतिः श्रीकन्यकुब्जे जितः। ये चान्येऽपि जडीकृताः कतिपये जल्पानिले वादिनः
सोऽयं द्वारि समागतः क्षितिपते! धर्मः स्वयं तिष्ठति ॥ २५६ ॥ 1 N तत्ते। 2 N शब्दात्तं । 8 A B 'वमान्यासौ ।
30