________________
१३८
प्रभावकचरिते १७. श्रीमहेन्द्रसूरिचरितम् ।
६१. श्रीमन्महेन्द्रसूरिभ्यो नमस्कारं प्रशास्महे । सत्यंकारमिवागण्यपुण्यपण्यस्थिरीकृतौ ॥ १॥
श्रीमतो धनपालस्य सालस्यः को गुणस्तुतौ । यस्याविचलविश्वासे ब्राह्मी तथ्यवचःक्रमा ॥२॥ श्लाघ्यः स धनपालः स्यात् काल आन्तरविद्विषाम् । यद्बुद्धिरेव सिद्धाज्ञा मिथ्यात्वगरलच्छिदे ॥३॥ तद्वत्ते वाचमाधास्ये दास्ये तिष्ठन् गुरुक्रमे । विधास्ये स्वस्य नैर्मल्यमादास्ये जन्मनः फलम ॥४॥ अस्त्यवन्त्यभिधो देशो देशोनं वाडवामुखम् । यस्य येन वसन्त्यत्र' कुलानि नवभोगिनाम ॥५॥ आधारः पुरुषार्थानां पुरी धाराऽस्ति यत्पुरः। दानकल्पद्रुबाहुल्यादसारा साऽमरावती ॥६॥ तत्र श्रीभोजराजोऽस्ति राजा निर्व्याजवैभवः । अवैरं यन्मुखाम्भोज भारती-श्रीनिवासयोः ॥ ७ ॥
यद्यशःस्वर्णदीतीरे प्रवृत्तव्योमविद्रवे । विधिः पूजाविधौ नालिकेरवद्विधुमादधे ॥ ८॥ 10 ६२. इतश्च मध्यदेशीयसंकाश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षिप्रभावो भूमिनिर्जरः ॥ ९ ॥
तस्य श्रीसर्वदेवाख्यः सूनुरन्यूनसक्रियः । ब्राह्मण्यनिष्ठया यस्य तुष्टाः शिष्टा विशिष्टया ॥ १० ॥ तस्य पुत्रद्वयं जज्ञे विज्ञेशैरर्चितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः॥ ११ ॥ तत्रान्यदाऽऽययौ चान्द्रगच्छपुष्करभास्करः। श्रीमहेन्द्रप्रभुः पारदृश्वा श्रुतपयोनिधेः ॥ १२ ॥
जनानां संशयोच्छेदमादधद् व्याख्यया तया । विश्रुतः सर्वदेवेन द्विजराजेन स श्रुतः ।। १३ ॥ 15 स चास्योपाश्रये प्रायादुचितं मानितश्च तैः । दिनत्रयमहोरात्रं तथैवास्थात् समाधिना ॥ १४ ॥
पप्रच्छ प्रभुरप्येवं परीक्षाहेतवे हि नः । सुधियो यूयमायाथ कार्य वाप्यस्ति किंचन ।। १५ ।। स्वयंभुवोऽपरा मूर्तिः प्राहासौ द्विजसत्तमः । महात्मनां हि माहात्म्यवीक्षणे सुकृतार्जनम् ॥ १६ ॥ कार्यं नः किञ्चिदप्यन्यदस्ति तत्रार्थिनो वयम् । रहस्यं 'यदनाख्येयमितरेषां गुणोदधे ! ॥ १७ ॥
स्थित्वैकान्ते प्रभुः प्राह ख्यात यत् कथनोचितम् । इति श्रुत्वा जगादासौ पिता नः पुण्यवानभूत् ॥ १८॥ 20 राजपूज्यस्ततो लौर्दानं प्रापदसौ सदा । गृहे मम निधेः शङ्का तृष्णाविलसितं ह्यदः ॥ १९॥
तं सर्वज्ञातविज्ञाना यूयं यदि ममोपरि । अनुग्रहधिया ख्यात परोपकरणोद्यताः ॥ २०॥ ब्राह्मणः सकुटुम्बस्तत्स्वजनैः सह खेलति । दानभोगैस्ततः श्रीमन् ! प्रसीद प्रेक्षयस्व तत् ॥२१॥-युग्मम् । सूरिविमृश्य तत्पाल्लिाभं शिष्योत्तमस्य सः । आह सम्यग् भवत्कार्य विधास्यामो धियां निधे ! ॥२२॥
परं नः किं भवान् दाता रहः कथ्यं हि नस्त्वया । सामिस्वामिन् ! समस्तस्य दास्यामि तव निश्चितम् ॥२३॥ 25
अहं स्वरुचि भावकवस्तुनोऽध समाददे । साक्षिणोऽत्र विधीयन्तां द्रव्यव्यतिकरो ह्ययम् ॥ २४ ॥ व्याख्याता वेदवेदाङ्गशास्त्रेषु वितथं कथम् । वदाम्यत्र तथाप्यस्तु विश्वासाय प्रभोरिदम् ॥ २५ ॥ साक्षीकृत्य ततस्तत्रस्थितान मेने गुरुस्तदा । हृष्टेन गृहमागत्य पुत्रयोर्जगदे तथा ॥ २६ ॥ शुभेऽह्नि सूरिमाह्वास्त ज्ञानाज्ज्ञात्वा स तद्भुवम् । निश्चित्योवाच तद्रव्यं खानयित्वाऽऽप स द्विजः॥२७॥ चत्वारिंशत्सुवर्णस्य टङ्कलक्षा विनिर्ययुः । दृष्टेऽपि निःस्पृहोत्तंसः सूरिः स्वोपाश्रयं ययौ ॥ २८ ॥ श्रीमतः सर्वदेवस्य महेन्द्रस्य प्रभोस्तथा । दान-ग्रहणयोर्वादो वर्ष यावत् तदाऽभवत् ॥ २९ ॥ अन्यदा सत्यसन्धत्वाद् ब्राह्मणः सूरिमाह च । देयद्रव्येऽत्र ते दत्ते स्वगृहं प्रविशाम्यहम् ॥ ३०॥ सुरिः प्राहाभिरुचितं ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं गृहाण त्वं द्विजोऽवदत् ॥ ३१ ॥
30
1N येन च सन्यत्र। 2N न्यूनविक्रमः। 3N स्वयंभुवः परा। 4 N वदना'; A यदिना। 5A दधेः । 6A D निवेशका17 N वस्तुतो। .8 B दानाग्रहण 19N प्राहातिरुचितं ।