SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १६. वादिवेतालशान्तिसूरिचरितम् । शाखाद्वये परे विद्वत्कोटीरपरिवारिते । सूरयोऽद्यापि वर्तन्ते संघोद्धारधुरन्धराः ॥ १२५ ॥ श्रीशान्तिसूरयः श्रीमदुजयन्ताचलं प्रति । यशोभिधानसुश्राद्धसुतसाढेन' संगताः ॥ १२६ ॥ कृत्वा प्रयाणमल्पैश्च दिनैस्तं गिरिमभ्ययुः । श्रीनेमि हृदये ध्यात्वा चक्रुः प्रायोपवेशनम् ॥ १२७ ॥ धर्मध्यानाग्निनिर्दग्धभवार्तिविततेधसः । अज्ञातक्षुत्तृषानिद्राप्रभृत्यन्तःप्रतीतयः ॥ १२८ ॥ समाधिना व्यतीत्याथ दिनानां पञ्चविंशतिम् । वैमानिकसुरावासमधिजग्मुर्जगन्नताः ॥ १२९॥ 5 श्रीविक्रमवत्सरतो वर्षसहस्र गते सषण्णवतौ (१०९६)। शुचिसितिनवमीकुजकृत्तिकासु शान्तिप्रभोरभूदस्तम् ॥ १३०॥ इत्थं श्रीशान्तिसूरेवरचरितमिदं वादिवेतालनाम्नः । ___ पूर्वश्रीसिद्धसेनप्रभृतिसुचरितवातजातानुकारम् । अद्यप्रातीनविद्वजनपरिणतामादधानं (१) श्रिये स्ता नन्द्याचाचन्द्रकालं विवुधजनशतैः सम्यगभ्यस्यमानम् ॥ १३१॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा___ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शृङ्गोऽगमत् षोडशः श्रीप्रद्युम्नमुनीन्दुना विशदितः श्रीशान्तिसूरिप्रथा ॥ १३२ ॥ ॥ ग्रंथ १३६, अ० ९ । उभयं ३६४६, अक्षर १७ ॥ ॥ इति श्रीवादिवेतालप्रबन्धः ॥ 1N सोढेन। 2N परिणमतामादधान (?)। प्र०१८
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy