________________
१२७
१५. वीरसूरिचरितम् । १५. श्रीवीरसूरिचरितम् ।
६१. आन्तरारिहरिध्वंसी' दुष्कर्मगजयूथहृत् । अष्टापदोदयद्वर्णः श्रीवीरः स्वान्वयः श्रिये ॥१॥
श्रीमद्वीरगणिस्वामिपादाः पान्तु यदादरात् । कषायादिरिपुत्रातो भवेन्नागमनक्षमः ॥२॥ विबुधा विबुधा यस्योपदेशैरमृताश्रवैः । स्वान्ययोरुपकाराय तस्य वृत्तं प्रतन्यते ॥ ३॥
पुरं श्रीमालमित्यस्ति गभस्तिरपहस्तितः । यदुद्यानद्रुमैः पूर्वपश्चिमावाश्रयद् गिरी ॥४॥ 5 मन्दतामरसत्वं च यत्र बिभ्रति नो जनाः। मन्दतामरसत्वं च दधते न सरांस्यपि ॥५॥ श्रीधूमराजवंशीयः कुमुदामोदिमण्डलः । राजात्र देवराजोऽस्ति तरङ्गितनयोदधिः ॥ ६॥ वणिक् प्राग्रहरस्तत्र शिवनागाभिधः सुधीः । यन्मत्रैर्हियतेऽत्युप्रद्विजिव्हप्रभवं विषम् ॥ ७ ॥ दृढानुरागी श्रीजैनधर्मे श्रीधरणाभिधम् । आरराध स नागेन्द्रं तद्भक्तरतुषञ्च सः॥८॥ कलिकुण्डक्रम तस्य सर्वसिद्धिकरं ददौ । विषापहारकं सद्यो जपहोमादिकैर्विना ॥ ९॥
10 यः फूत्कारकरस्पर्शेरष्टानामपि संहरेत् । विषं नागकुलानां स मत्रो निष्पुण्यदुर्लभः ॥१०॥ स्तवनं स तदा चक्रे तत्सन्दर्भप्रताप परिपूतम् । स्मरणादपि दुरितहरं ख्यातं धरणोरगेन्द्राख्यम् ॥ ११ ॥ तस्य पूर्णलताऽन्वर्था कान्ता धर्मद्रुमाश्रिता । कुलकन्दा वचःपत्रा यशःपुष्पा महाफला ॥ १२ ॥ स्वस्ति वीरस्तयोः पुत्रो रत्नदीप इव स्फुरन् । अक्षयार्चिस्तमोहन्ता दिवसप्रकटप्रभः ॥ १३ ॥ यस्य कोटिध्वजव्याजाद् वैजयन्त्य इवोर्जिताः । सुमनस्थेन गीर्वाणान् जित्वा वीरः कथं न सः॥ १४ ॥15 स सप्तोद्वाहितः कन्याः सप्तानां व्यवहारिणाम् । सप्ताब्धीनामिवामूल्यरत्नौधैर्मण्डिताः श्रियः ॥ १५ ॥ श्रीवीरं वन्दितुं वीरः श्रीमत्सत्यपुरे सदा । मृते पितरि वैराग्याद् याति पर्वसु सर्वदा ॥ १६॥ अन्यदा तस्करैर्गच्छन् विद्रोतुमयशस्करैः । अवेष्ट्यतारथान् शुष्कपत्रैः कारस्करैरिव ॥ १७ ॥ प्रणश्य च तदा श्यालः श्रेष्ठिनो गृहमागमत् । अधृतेश्चागमन्माता गृहद्वारे जनश्रुतेः ॥ १८ ॥ वीरः कुत्र तया पृष्टे नर्मणा सोऽप्यभाषत । चौरेवीरो मृषावीरः प्रहतः सत्त्ववर्जितः ॥ १९ ॥ 20 इत्याकर्ण्य तदम्बा च तथैवास्थादजीविता । अहो अतुच्छं वात्सल्यं मातुर्वाक्यपथातिगम् ॥ २० ॥ पितुर्भर्तुः कलाचार्य-मित्रयोरुपकारिणः । भवेत् कथंचिदानृण्यं जनन्या न कथंचन ॥ २१॥ तदा च चौरसंघाताद् वीरो वीरप्रसादतः । स्वक्षेत्रेणाकृतेनागात् (?) शालभादिव कषुकः ॥ २२ ॥ दृष्ट्वा स्वाम्बां गतप्राणां विस्मरन्निजसङ्कटम् । किमभूदित्यतः पृच्छन् यथावृत्तं तदाऽशृणोत् ॥ २३ ॥ अनुतप्तः प्रियाबन्धुर्वीरेणाभिदधे तदा । अस्थिभङ्ग कथं नर्म कृतं मद्भाग्यदूषकम् ॥ २४ ॥ 25 स प्राह कोऽपि नर्मोक्त्या किं मातेव विपद्यते । शल्यं बिल्वकवन्मेऽभूदित्याजन्माप्यनिर्गमम् ॥ २५ ॥ वीरः प्राहाथ वैराग्याजनन्या मम च स्फुटम् । कीदृग्दूरतरं स्नेहसम्बन्धे पश्यतान्तरम् ॥ २६ ॥ हास्येन मन्मृतिं श्रुत्वा माता सत्येन संस्थिता । सत्वेऽपि निधने तस्या वयं किञ्चिन्मुचोऽपि न ॥ २७॥ उक्त्वेति कोटिमेकैका कलत्रेभ्यः प्रदाय सः। शेषः (? षं) श्रीसंघपूजासु चैत्येष्वेवाव्ययद् धनम्॥२८॥ परिग्रहपरित्यागं कृत्वा गार्हस्थ्य एव सन् । गत्वा सत्यपुरे श्रीमद्वीरमाराधयन्मुदा ॥ २९ ॥ 30 उपवासान् सदा चाष्ट कृत्वा पारणकं व्यधात् । समस्तविकृतित्यागादहो अस्य महत्तपः ॥ ३०॥
1 BN आन्तरारिपुविध्वंसी। 2 A BN द्वर्णश्रीवीरः। 3 N°प्रभाव। 4 N अवेद्यताखान् । 5 N तत्रैवा । 6 A D खां तां 17 A D यदावृत्तं। 8N चैत्योघे चाव्य।