________________
११२
प्रभावकचरिते १२. श्रीमानतुङ्गसूरिचरितम् ।
15
६१. प्रभोः श्रीमानतुङ्गस्य देशनायां रदविषः । जयन्ति ज्ञानपाथोधिशारदेन्दुसहोदराः ॥ १॥
नित्यं योजनलक्षेण वर्णनीयः' सुवर्णरुक् । मानतुङ्गः प्रभुः पातु मेरुः सौमनसाश्रितः ॥ २ ॥ अस्यैवाबाह्यमैतिह्य मप्रणाय्यं जगत्यपि । निकाय्यं तीर्थशृङ्गारप्रकर्षस्य प्रकीर्तये ॥ ३ ॥ सदा सुरसरिद्वीचीनिचयाचान्तकश्मला । पुरी वाराणसीत्यस्ति साक्षादिव दिवःपुरी ॥ ४ ॥ आसीत् कोविदकोटीरमर्थिदारिद्र्यपारभूः । तत्र श्रीहर्षदेवाख्यो राजा नतु कलङ्कभृत् ॥ ५ ॥ ब्रह्मक्षत्रियजातीयो धनदेवाभिधः सुधीः । श्रेष्ठी तत्राभवद् विश्वप्रजाभूपार्थसाधकः ॥ ६ ॥ तत्सुतो मानतुङ्गाख्यो विख्यातः सत्त्वसत्यभूः । अवज्ञातपरद्रव्यवनितावितथाग्रहः ॥ ७ ॥
सन्तीह मुनयो जैना नग्मा 'भग्नस्मराधयः । तच्चैत्ये जग्मिवानन्यदिवसे विवशेतरः ॥ ८॥ 10 वीतरागप्रभुं नत्वा गत्वा गुरुपदान्तिकम् । प्राणमद्धर्मवृद्ध्याशीर्वादेन गुरुणार्हितः ॥ ९॥
महाव्रतानि पंचास्योपादिशन्नग्नतां तथा । ऊर्णकाप्पसकौशेयशौम्बा वृतिनिषेधतः॥१०॥ इत्याद्यनेकधा धर्ममार्गाकर्णनतस्तदा । वैराग्यरङ्गिणो मानतुङ्गस्य व्रतकांक्षिणः ॥ ११ ॥ तन्मातापितरौ पृष्ट्वाऽऽचार्यस्तस्य व्रतं ददौ । चारुकीर्तिमहाकीर्तिरित्यस्याख्यां ददौ च सः ॥ १२ ॥ स्त्रीणां न निर्वृतिर्मान्या भुक्तिः केवलिनोऽपि हि । द्वात्रिंशदन्तरायाणि बुबुधे च बुधेश्वरः ॥ १३ ॥ कृतलोचस्ततो हस्तस्थिततोयकमण्डलुः। "सन्त्यक्तसर्वावरण" ईर्यासमितिसंयुतः॥ १४॥ गृहस्थावसथोर्द्धस्थावस्थानकृतभोजनः । मायूरपिच्छिकाहस्तो मौनकालेषु मौनवान् ॥ १५ ॥
सदा निःप्रतिकर्मासौ प्रतिक्रमणयोर्द्वयोः । दक्षो गुरुकनीयस्त्वे" दुष्कर" कुरुते व्रतम् ॥१६॥-विशेषकम् ।। ६२. अस्य स्वसृपतिर्लक्ष्मीधरो लक्ष्मीवरस्थितिः । आस्तिकानां शिरोरत्नमत्रासीद् विस्फुरद्यशाः ॥१७॥
दृढभक्त्या स चर्यार्थमन्यदोपनिमन्त्रितः । महर्षिस्तेन काले च" मध्ये तद्गृहमागमत् ॥ १८ ॥ 20
अशोधनप्रमादेनानुसन्धानाज्जलस्य च । नैके संमूर्छितास्तत्र पूतरास्तत्कमण्डलौ ॥ १९॥ गण्डूषार्थमृषिर्यावचुलुके जलमाददे । ददर्श तान् स्वसा प्राह लीना श्वेताम्बरव्रते ॥ २०॥ . व्रते कृपाभरः" सारस्तदमी द्वीन्द्रियास्त्रसाः । विपद्यन्ते प्रमादाद् वस्तज्जैनसदृशं नहि ॥ २१ ॥ लज्जावरणमात्रेऽत्र वस्त्रखण्डे परिग्रहः । ताम्रपाने कथं न स्याद् यादृच्छिकमिदं किमु ॥ २२॥ धन्याः श्वेताम्बरा जैनाः प्राणिरक्षार्थमुद्यताः । न सन्निदधते नीरमपि रात्रौ क्रियोद्यताः॥२३॥ अचेलाश्च सचेलाश्च नावधारणदुर्नयम् । आद्रियन्ते स्म निःसङ्गाः परमार्थकृतादराः ॥ २४ ॥ पञ्चाश्रवेन्द्रियार्थानां परिहारपरायणाः । गुप्तिभिस्तिसृभिर्गुप्ताः स्थिताः समितिपंचके ॥ २५ ॥
-त्रिभिर्विशेषकम् ॥ इत्याकर्ण्य मुनिः प्राह प्राञ्जलं शृणु मद्वचः । गृहवासपरित्यागो मया पुण्यार्थिना कृतः ॥ २६ ॥
आस्तामन्यः" समाचारो यत्र जीवदयापि न । तेन धर्मेण किं कुर्वे श्रीसर्वज्ञविरोधिना ॥ २७ ॥ 30 अत्र देशे समायान्ति दुःप्रापाः" श्वेतभिक्षवः । सा प्राह मध्यदेशात्ते समायास्यन्ति सांप्रतम् ॥ २८ ॥
25
1A वर्णनीय 1 2 'अनादिवाती' इति D टिप्पणी । 3 'संमत' इति D टि.। 4 'निवासः' इति D टि.। 5 A वाणारसी। 6 A सत्यसत्त्वभूः। 7 A नम। 8 N शौचावृत्ति। 9N मुक्तिः। 10 N सत्यक्त। 11 B °सर्वाचरण; N °सर्वाभरण । 12 N कनीयश्चेदुःकर । 13 A दुःवतं। 14 N कालेन । 15 N कृपारसः। 16 N स्थितिः। 17 A अन्यसमा । 18 N दुःप्राया।