SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ १९० त्रयोदशं परिशिष्टम् पभोगक्षम विद्यते तत् तत्र' आपणे न नास्ति, "द्वौ नी प्रकृत्यर्थं गमयतः” इति वचनाद् अस्त्येवेति भावः ॥ ४२१४ ॥ अथात्कृष्ट-मध्यम-जघन्यमूल्यस्थानानि प्रतिपादयति पणतो पागतियाणं, साहस्सो होति इब्भमादीणं । उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ ॥ ४२१५ ॥ प्राकृतपुरुषाणां प्रव्रजतामुपधिः कुत्रिकापणसःकः ‘पञ्चकः' पञ्चरूपकमूल्यो भवति । 'इभ्यादीनां' इभ्यश्रेष्ठि-सार्थवाहादीनां मध्यमपुरुषाणां 'साहस्रः' सहस्रमूल्य उपधिः । 'उत्तमपुरुषाणां' चक्रवत्ति-माण्डलीकप्रभृतीनामुपधिः शतसहस्रमूल्यो भवति । एतच मूल्यमानं जघन्यतो मन्तव्यम् । उत्कर्षतः पुनस्त्रयाणामप्यनियतम् । अत्र च पञ्चकं जघन्यम् , सहस्रं मध्यमम् , शतसहस्रमुत्कृष्टम् ॥ ४२१५॥ कथं पुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं मूल्यं भवति ? इत्युच्यते-- विकिंतगं जधा पप्प, होइ रयणस्स तम्विधं मुलं । कायगमासज्ज तधा, कुत्तियमुल्लस्स निकं ति ॥ ४२१६॥ यथा 'रत्नस्य' मरकत-पद्मरागादेविक्रेतारं 'प्राप्य' प्रतील तद्विधं मूल्यं भवति, यादृशो मुग्धः प्रबुद्धो वा विक्रेता तादृशमेव खल्पं बहु वा मूल्यं भवतीति भावः । एवं 'क्रायक' ग्राहकमासाद्य कुत्रिकापणे भाण्डमूल्यस्य 'निष्क' परिमाणं भवति, न प्रतिनियतं किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ॥ ४२१६ ॥ एवं ता तिविह जणे, मोल्लं इच्छाए दिज बहुयं पि। सिद्धमिदं लोगम्मि वि, समणस्स वि पंचगं भंडं ॥ ४२१७ ॥ एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिगो जने 'मूल्यं' पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् इच्छया तु 'बह्वपि' यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न कोऽप्यत्र प्रतिनियमः। न चैतदत्रैवोच्यते किन्तु लोकेऽपि 'सिद' प्रतीतमिदम् , यथा-श्रमणस्यापि 'पञ्चकं' पञ्चरूपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥ ४२१७ ॥ अथ कुत्रिकापणः कथमुत्पद्यते ? इत्याह पुव्वभविगा उ देवा, मणुयाण करिति पाडिहेराई। लोगच्छेरयभूया, जह चक्कीण महाणिहयो ॥ ४२१८॥ 'पूर्वभविकाः' भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां 'प्रातिहार्याणि' यथाभिलषितार्थोपढौकनलक्षणानि कुर्वन्ति । यथा लोकाश्चर्यभूताः 'महानिधयः' नैसर्पप्रभृतयः 'चक्रिणां' भरतादीनां प्रातिहार्याणि कुर्वन्ति । वर्तमाननिर्देशस्तत्कालमङ्गीकृत्याविरुद्धः । एवं कुत्रिकापणा उत्पद्यन्ते ॥ ४२१८ ॥ ते चैतेषु स्थानेषु पुरा बभूवुः इति दर्शयति उजेणी रायगिहें, तोसलिनगरे इसी य इसिवालो। दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं ॥ ४२१९ ॥ उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगरवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनीकुत्रिकापणात् क्रीला स्वबुद्धिमाहात्म्येन सम्यगाराधितः, ततस्तेन ऋषितडागं नाम सरः कृतम् । तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण-प्रतिग्रहलक्षणमानीतम् , अतो ज्ञायते यथा.राजग्रहे कृत्रिकापण आसीदिति पुरातनगाथासमासार्थः ॥ ४२१९ ॥ साम्प्रतमेनामेव विवृणोति पजोए णरसीहे, णव उजेणीय कुत्तिया आसी। भरुयच्छवणियऽसद्दह, भूयऽट्ठम सयसहस्सेणं ॥ ४२२० ॥ कम्मम्मि अदिजते, रुटो मारेइ सो य तं घेतुं । भरुयच्छाऽऽगम, वावारदाण खिप्पं च सो कुणति ॥ ४२२१ ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy