________________
१५५
त्रयोदशं परिशिष्टम् वृहत्कल्पसूत्र-तनियुक्ति-भाष्य-टीकादिगताः पुरातत्त्वविदा
मुपयोगिनो विभागशो विविधा उल्लेखाः।
[१ वृत्तिकृतोर्मङ्गलादि] (१) श्रीमलयगिरिमरिकृतं मङ्गलमुपोद्घातग्रन्थश्च
प्रकटीकृतनिःश्रेयसपदहेतुस्थविरकल्प-जिनकल्पम् ।
नम्राशेषनरा-ऽमरकल्पितफलकल्पतरुकल्पम् ॥१॥ नवा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । कल्पाध्ययनं विवृणोमि लेशतो गुरुनियोगेन ॥ २॥ भाष्यं क्व चाऽतिगम्भीरं ?, क्व चाऽहं जडशेखरः ? । तदत्र जानते पूज्या, ये मामेवं नियुञ्जते ॥ ३ ॥ अद्भुतगुणरत्ननिधौ, कल्पे साहायकं महातेजाः । दीप इव तमसि कुरुते, जयति यतीशः स चूर्णिकृत् ॥ ४ ॥
विभागः १ पत्रम् १ अथ कः सूत्रमकार्षीत् ? को वा नियुक्तिम् ? को वा भाष्यम् ? इति, उच्यते-इह पूर्वेषु यद् नवमं प्रत्याख्याननामकं पूर्व तस्य यत् तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगुणेषत्तरगुणेषु चापराधेषु दशविधमालोचनादिकं प्रायश्चित्तमुपवर्णितम् , कालक्रमेण च दुःषमानुभावतो धृति-बलवीर्य-बुद्ध्या-ऽऽयुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानि जातानि, ततो 'मा भूत् प्रायश्चित्तव्यवच्छेदः' इति साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्रं व्यवहारसूत्रं चाकारि, उभयोरपि च सूत्रस्पर्शिकनियुक्तिः । इमे अपि च कल्प-व्यवहारसूत्रे सनियुक्तिके अल्पग्रन्थतया महार्थत्वेन च दुःषमानुभावतो हीयमानमेधा-ऽऽयुरादिगुणानामिदानीन्तनजन्तूनामल्पशक्तीना दुर्घहे दुरवधारे जाते, ततः सुखग्रहण-धारणाय भाष्यकारो भाष्यं कृतवान् , तच्च सूत्रस्पर्शिकनियुक्त्यनुगतमिति सूत्रस्पर्शिकनियुक्तिर्भाष्यं चैको ग्रन्थो जातः ।
विभागः १ पत्रम् २ (२) श्रीक्षेमकीर्तिमूरिकृतं मङ्गलमुपोद्घातग्रन्थश्च
नतमघवमौलिमण्डलमणिमुकुटमयूखधौतपदकमलम् ।
सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम् ॥ १॥ चरमचतुर्दशपूर्वी, कृतपूर्वी कल्पनामकाध्ययनम् । सुविहितहितकरसिको, जयति श्रीभद्रबाहुगुरुः ॥२॥ कल्पेऽनल्पमनर्घ, प्रतिपदमर्पयति योऽर्थनिकुरुम्बम् । श्रीसङ्घदासगणये, चिन्तामणये नमस्तस्मै ॥ ३ ॥ शिवपदपुरपथकल्पं, कल्पं विषममपि दुःषमारात्रौ । सुगमीकरोति यञ्चूर्णिदीपिका स जयति यतीन्द्रः ॥ ४ ॥ आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः ॥ ५ ॥ श्रुतलोचनमुपनीय, व्यपनीय ममापि जडिमजन्मान्ध्यम् । यैरदर्शि विवमार्गः, खगुरूनपि तानहं वन्दे ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org