________________
भाष्यगाथाः ५९९०-९७] पञ्चम उद्देशः ।
१५८३ घेत्तुं णयणं खिप्पं, ते वि य वसहिं सयमुर्वेति ॥ ५९९४ ॥ ते साधवो न कथयन्ति, यथा-अमुकः साधुरहिना खादितः । ता अप्यार्यिका न कथयन्ति, यथा-एतन्मोकममुकस्याः सत्कमिति । गृहीत्वा च क्षिप्रं नयनं कर्तव्यम् । पूर्वोक्तेन च विधिना ते 'स्वकाम्' आत्मीयां वसतिम् उपयान्ति ॥ ५९९४ ॥ आह–'यदि अमुकः साधुर्दष्टः, अमुकस्या वा मोकमिदम्' इति कथ्यते ततः को दोषः ? इत्याह
जायति सिणेहों एवं, भिण्णरहस्सत्तया य वीसंभो।
तम्हा न कहेयव्वं, को व गुणो होइ कहिएणं ॥ ५९९५ ॥ एवं कथ्यमाने तयोः स्नेहो जायते, भिन्नरहस्यता च भवति, रहस्ये च भिन्ने विश्रम्भो भवति । यत एते दोषास्तस्माद् न कथयितव्यम् । को वा गुणस्तेन कथितेन भवति ? न कोऽपीत्यर्थः ॥ ५९९५ ॥ यदा संयती दीर्घजातीयेन दष्टा भवति तदाऽयं विधि:- 10
सागारिसहिय नियमा, दीवगहत्था वए जईनिलयं ।
सागारियं तु बोहे, सो वि जई स एव य विही उ॥५९९६ ॥ आर्यिका नियमात् 'सागारिकसहिताः' शय्यातरसहायाः सभये च दीपकहस्ता यतीनां निलयं व्रजेयुः । स च संयतीसागारिक इतरं संयतसागारिकं बोधयति । सोऽपि प्रतिबुद्धः साधून बोधयति । अत्रापि स एव विधिर्मोकदाने द्रष्टव्यः ॥ ५९९६ ॥
15 ॥ मोकप्रकृतं समाप्तम् ॥
परि वा सि त प्र कृ तम् सूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा पारियासियस्स आहारस्स जाव तयप्पमाणमित्तमवि भूइप्पमाणमित्तमवि बिंदुप्पमाणमित्तमवि आहारं आहा.
रित्तए, नन्नत्थे आगाढेसु रोगायंकेसु ३८॥ अस्य सूत्रस्य सम्बन्धमाह
उदिओऽयमणाहारो, इमं तु सुत्तं पडुच्च आहारं ।
अत्थे वा निसि मोयं, पिजति सेसं पि मा एवं ॥ ५९९७ ॥ 25 'अयं' मोकलक्षणोऽनाहारः पूर्वसूत्रे 'उदितः' भणितः, इदं तु सूत्रं आहारं प्रतीत्यारभ्यते । अर्थतो वा 'निशि मोकं पीयते' इत्युक्तम् अतः ‘शेषमपि' आहारादिकमेवं मा रात्रौ आहारयेदिति प्रस्तुतं सूत्रमारभ्यते ॥ ५९९७ ॥
१°भवि तोयबिंदुप्प कां० विना । एतत्पाठानुसारेणैव का० विना टीका, दृश्यतां पत्रं १५८४ टिप्पणी १॥ २°थ आगाढा-ऽणागाढे कां० । एतत्पाठानुसारेणैव कां० टीका, दृश्यतां पत्रं १५८४ टिप्पणी २॥ ३ 'अर्थे' अर्थतो वाशब्दात् सूत्रतोऽपि 'निशि कां.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org