SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५८८४-९२] पञ्चम उद्देशः । . १५५३ "संसक्तः शुष्कौदनः पृथग् गृह्यते" (गा० ५८७२ ) तत्राप्येतेष्वेव ग्लाना-ऽध्वा-ऽवमेषु कारणेषु द्वितीयपदं मन्तव्यम् ॥ ५८८८ ॥ तथा चाह वीसुं घेप्पइ अतरंतगस्स बितिए दवं तु सोहेति । तेण उ असुक्खगहणं, तं पि य उण्हेयरे पेहे ॥ ५८८९ ॥ 'अतरन्तगस्य' ग्लानस्य योग्यं 'विष्वग्' एकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके द्रवं शोधयति, ततो यत्र शुष्कौदनः पृथग् गृह्यते तत् तृतीयं मात्रकं नास्तीति कृत्वा शुष्कमा वा एकत्रैव प्रतिग्रहे गृह्णीयात् । ग्लानस्यापि यद् ओदन-द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृह्णाति तदपि उष्णं ग्रहीतव्यम् । 'इतरत् तु' शीतलं प्रत्युपेक्षेत, यदि असंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः ॥ ५८८९ ॥ अद्धाणे ओमे वा, तहेव वेलातिवातियं णातुं । दुल्लभदवे व मा सिं, धोवण-पियणा ण होहिंति ॥ ५८९० ॥ अध्वनि वाऽवमौदर्ये वा वेलाया अतिपातम्-अतिक्रमं ज्ञात्वा तथैव शुष्कं विष्वग् न गृह्णीयात् । दुर्लभं वा तत्र ग्रामे द्रवं-पानकं ततो मा "सिं" एषां साधूनां भाजनधावन-पाने न भविष्यत इति कृत्वा पूर्व मात्रके द्रवं गृहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथग् गृह्यते अत एकत्रैव गृह्णीयात् ॥ ५८९० ॥ उक्तमोदनविषयं द्वितीयपदम् । अथ पानकविषयमाह-- 15 आउट्टिय संसत्ते, देसे गेलण्णऽद्धाण कक्खडे अखिप्पं ।। इयराणि य अद्धाणे, कारण गहिते य जतणाए॥ ५८९१ ॥ ___ यथा कारणे 'आकुट्टिकया' जानन्तोऽपि संसक्ते देशे गच्छन्ति तथा तत्र गताः सन्तः संसक्तमपि पानकं गृह्णन्ति । गृहीत्वा च ग्लानत्वेऽध्वनि 'कर्कशे वा' अवमे क्षिप्रं न परित्यजेयुरपि । तथाहि-लानत्वे यावत् संसक्तं परिष्ठापयन्ति तावद् ग्लानस्य वेलातिक्रमो भवति, 20 अध्वनि सार्थात् परिभ्रश्यन्ति, अवमौदर्ये भिक्षाकालः स्फिटति, ततो न क्षिप्रं परित्यजेयुः । . 'इतराणि च' सागारिकस्य पश्यतः परिष्ठापनम् इत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यप्यध्वनि वर्तमानः कुर्यात् । एष कारणे यतनया गृहीतस्य संसक्तस्य विवेचने विधिरवगन्तव्य इति सहगाथासमासार्थः ॥ ५८९१ ॥ अथैनामेव विवृणोतिआउट्टि गमण संसत्त गिण्हणं न य विचिए खिप्पं । 25 ओम गिलाणे वेला, विहम्मि सत्थो वइकमइ ॥ ५८९२ ॥ यथाऽऽकुट्टिकया संसक्तदेशे गमनं तथा तत्र गतः संसक्तमपि गृह्णीयात् न च क्षिप्रं 'विविञ्च्यात्' परिष्ठापयेत् । कुतः ? इत्याह-अवमे भिक्षाकालः स्फिटति, ग्लान्ये वा ग्लानस्य वेलाऽतिक्रमेत् , 'विहे' अध्वनि सार्थो व्यतिक्रामति, ततः क्षिप्रं न परित्यजेत् ॥ ५८९२ ॥ १°स्तीति, तेन कारणेन अशुष्कस्य-आर्द्रस्य तुशब्दात् शुष्कसार्धम् ओदनस्य एकत्रैव प्रतिग्रहे ग्रहणं कर्त्तव्यम् । ग्लान का० ॥ २ 'शुष्कम्' ओदनं वि को० ॥ ३ अवमौदर्यापरपर्याये "अखिप्पं" ति क्षिप्रं कां० ॥ अतः उपो वा भूभागे ऊर्द्धस्थितस्य वा यत् परिष्टापनं तल्लक्षणानि त्रीणि स्थानानि यानि का० ॥ ५ इति नियुक्तिगाथा का ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy