________________
भाष्यगाथाः ३३०५-९] द्वितीय उद्देश
१२९ एवं प्रत्येकबीजविषयमुक्तम् । अनन्तबीजेपु वेवमेव गुरुदशरानिन्दिवेभ्यः प्रारब्धं गुरुमासान्तं वक्तव्यम् । अथवा भिक्षुप्रभृतीनां चतुर्णामप्यविशेषेणोत्कीर्णादिषु चतुर्ख पि तपः-कालविशेषितो मासलघुकः, तद्यथा-उत्कीर्णेषु तपसा कालेन च लघुका, विकीर्णेषु कालेन गुरुकः, व्यतिकीर्णेषु तपसा गुरुकः, विप्रकीर्णेषु तपसा कालेन च गुरुकः । अनन्तवीजेवप्युत्कीर्णादिप्वेवमेव तपः-कालविशेषितं मासगुरुकम् । द्विविधा च विराधना संयमा-ऽऽत्मविषयाऽत्र मन्तव्या 15 तत्र संयमविराधना निर्गच्छन् वा प्रविशन् वा बीजानां सङ्घट्टनं परितापनमपद्रावणं वा कुर्यात् , ये च तदाश्रिताः प्राणिनस्तेषामपि सङ्घटनादिकं कुर्यात् तन्निप्पन्नं प्रायश्चित्तम् ॥ ३३०६ ॥ अथात्मविराधनां भावयति
सालि-जव अच्छि सालुग, णिस्सरणं मास-मुग्गमादीसु ।
संस्सू गुज्झ कुतूहल, विप्पहरण मास णिस्सरणं ॥ ३३०७॥ 10 तत्र स्थितानां साधूनां शालि-यवानां शालुकान्यक्ष्णोः प्रविशन्ति । तैश्च प्रविष्टैश्चक्षुषी अनागाढमागाढं वा परिताप्येते । तथा मुद्ग-माषादिषु विप्रकीर्णेषु गमना-ऽऽगमने विदधानानां 'निस्सरणं' प्रस्खलनं भवति, ततश्च हस्तभङ्गादयो दोषाः । अत्र श्वश्रूदृष्टान्तः___ एगो अगारो चिंतेइ-जइ सस्सुगाए गुज्झोरुगाइ पेच्छामि । ताहे मासा अइगमणनिग्गमणपहे विप्पकिन्ना । सा तत्थ वच्चंती फिल्लसिया गलियवसणा उत्ताणिया पडिया ॥ 15
इदमेवाह-"सस्सू" इत्यादि । श्वश्याः सम्बन्धि यद् गुह्यं तदवलोकने यत् कुतूहलं तद्वशाद् माषाणां विप्रकिरणम् , ततस्तस्याः श्वश्वाः 'निस्सरणं' प्रस्खलनमभवत् । एवं तत्र स्थितानां साधूनामप्यात्मविराधना भवेत् ॥ ३३०७ ॥ "द्वितीयपदमाह-~
विइयपय कारणम्मि, पुब्बि सभा पमज जतणाए ।
विक्खिरणम्मि वि लहुओ, तत्थ वि आणादिणो दोसा ॥ ३३०८ ॥ 20 द्वितीयपदे 'कारणे' अध्वनिर्गमनादौ शुद्धोपाश्रयालाभे बीजाकीर्णेऽप्युपाश्रये तिष्ठन्ति । कथम् ? इत्याह-पूर्व वृषभा दण्डप्रोक्छनकं गृहीत्वा तत्र गत्वा यतनया यथा तेषां बीजानां परितापनादि न भवति तथा प्रमृज्य ततः सबाल-वृद्धमपि गच्छमानीय यथालन्दं कालं तिष्ठन्ति । यदि प्रमार्जनां विदधाना बीजानां विकिरणम्-इतस्ततो विक्षेपणं कुर्वते तदा लघुमासः प्रायश्चित्तम् । तत्राप्यविधिप्रमार्जने आज्ञादयो दोषाः ॥ ३३०८ ॥ अथैतदेव स्पष्टयति- 25
गीया पुरा गंतु समिक्खियम्मि, थिरे पमजित्तुमहाथिरे वा। साहट्टमेगंति वसंति लंदं, उक्कोसयं जाणिय कारणं वा ॥ ३३०९ ॥ केचिदध्वनिर्गतादयः साधवो विवक्षितं ग्रामं प्राप्ताः, तत्र च गीतार्थाः पुरतो गत्वा त्रिकृत्वः शुद्धां वसतिं समीक्षन्ते-प्रत्युपेक्षन्ते । यदि तथासमीक्षिते न प्राप्यते तदा शाल्यादिवीजेषूत्कीर्णेषु प्रथमं स्थिरसंहननिषु तिष्ठन्ति, तदभावेऽस्थिरसंहननिष्वपि । तानि च 30
१ कां० विनाऽन्यत्र-त्वयमेव भा० । त्वेनमेव ताटी० त० डे. मो० ले० ॥
२ प्युत्क्षिप्तादिवे भा० ॥ ३ सुस्सू ताभा० विना ॥ ४ क्षुषोरनागाढमागाढं वा परिताप्यते भा०॥ ५॥ एतन्मध्यगतमवतरणं भा० नास्ति ॥ ६°षां जीवानां परि मो• ले.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org