________________
९२४
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [उपाश्रयप्रकृते मूत्रम् १ उक्ताः ( सूत्रम् २५-२९) तैः रहितो वीजादिपरित्यक्तश्च य उपाश्रयस्तत्र वस्तव्यमिति । एष पूर्वसूत्रेण सहास्य सम्बन्धः ॥ ३२९० ॥
अहवा पढमे सुत्तम्मि पलंबा वणिया ण भोत्तव्या।
तेसिं चिय रक्खट्ठा, तस्सहवासं निवारेति ॥ ३२९१ ॥ 5 'अथवा' इति सम्बन्धस्य प्रकारान्तरताद्योतकः । प्रथमोद्देशके 'प्रथम' प्रलम्बसूत्रे (गा० ८४९-५७ ) सविस्तरं प्रलम्बान्युपवर्णितानि, तानि च न भोक्तव्यानीति प्रतिषिद्धानि; अतो द्वितीयोद्देशकेऽपि प्रथमसूत्रे 'तेषामेव' प्रलम्बानां रक्षार्थ तैः-बीजाख्यैः प्रलम्बैः सह वासम्अवस्थानं निवारयति ॥ ३२९१ ॥
. अवि य अणंतरसुत्ते, उवस्सतो अधिकतो णिसिं जत्थ । 10 समणाण न निग्गंतुं, कप्पति अह तेण जोगो उ ॥ ३२९२ ॥
'अपि च' इत्यभ्युच्चये, न केवलं पूर्वोक्त सम्बन्धद्वयम् , तृतीयोऽपि सम्बन्धोऽस्तीति भावः । पूर्वसूत्रस्याधस्ताद् 'अनन्तरसूत्रे' "नो कप्पइ निगंथस्स एगाणियस्स राओ वा वियाले वा" (उ० १. सू० ४९) इत्यादिलक्षणे उपाश्रयोऽधिकृतः, यत्रैकाकिनां श्रमणानां 'निशि' रात्रौ
विचारभूम्याद्यर्थ न निर्गन्तुं कल्पते । 'अथ' अयं तेन सूत्रेण सह 'योगः' सम्बन्धः ॥३२९२॥ 15 इत्यनेकैः सम्बन्धैरायातस्यास्य व्याख्या-उपाश्रयस्य या 'अन्तर्वगडा' वगडाया अभ्यन्तरम्, तच्च प्रतिश्रयमध्यं वा स्यात् प्राङ्गणं वा । तत्र “सालीणि व” त्ति शालिवीजानि वा “वीहीणि व" ति व्रीहिबीजानि वा, एवं मुद्ग-माष-तिल-कुलत्थ-गोधूम-[ यव- ]यवयवैरपि तत्तबीजान्युच्यन्ते, यवयवाः-यवविशेषास्तबीजानि वा । एतानि बीजानि यत्रोपाश्रये उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा तत्र नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां 20 वा यथालन्दमपि वस्तुम् । इह यथालन्दं त्रिधा-जघन्यं मध्यममुत्कृष्टं च । यावता काले. नोदकाद्रों हस्तः शुष्यति तद् जघन्यम् , पञ्चरात्रिन्दिवान्युत्कृष्टम् , तयोरपान्तराले सर्वमपि मध्यमम् । अत्र जघन्य मध्यमयोः सूत्रावतारः । अपिशब्दः सम्भावनायाम् । जघन्यमपि मध्यममपि वा यथालन्दं नो कल्पते वस्तुम् , किं पुनरुत्कृष्टम् ? इति भावः । अत्र चोक्षिप्ता
दीनि पदानि भाष्यगाथयैव व्याख्यास्यन्त इत्यभिप्रायेणात्र न व्याख्यातानीति सूत्रसङ्केपार्थः ॥ 25 अथ नियुक्तिविस्तरः
नामं ठवणा दविए, भावे य उवस्सओ मुणेयव्यो।
एएसिं नाणत्तं, वोच्छामि अहाणुपुबीए ॥ ३२९३ ॥ नामोपाश्रयः स्थापनोपाश्रयो द्रव्योपाश्रयो भावोपाश्रयश्चेति उपाश्रयश्चतुर्की मन्तव्यः। एतेषा१ वासमपि निवा° भा० ॥ २ यत्र एकस्य-एकाकिनः श्रमणस्य 'निशि' भा० ॥
३ वा । तत्र शालयो वा व्रीहयो वा मुद्गा वा माषा वा तिला वा कुलत्था वा गोधूमा वा यवा वा यवयवा वा । वाशब्दाः सर्वेऽपि विकल्पार्थाः । सूत्रे च प्राकृतत्वान्नपुंसकनिर्देशः । यवयवा यवविशेषाः, शेषाः सुप्रसिद्धाः । एतानि धान्यानि यत्रोपाश्रये उत्कीर्णानि वा विकीर्णानि वा व्यतिकीर्णानि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org