________________
10
भाष्यगाथाः ४७७७-८८] तृतीय उद्देशः ।
१२८५ 'तद्' अनन्तरोक्तं वचनं श्रुत्वा भरतो महता मानसिकेन दुःखेनार्दितः सञ्जज्ञे । कथम् ? इत्याह-अमी श्रमणाः 'मे' ममानुग्रहं न कुर्वन्ति, अहो ! अहमे भिस्त्यक्त इति ।। ४७८१ ॥
नाऊण तस्स भावं, देवेंदो तस्स जाणणट्टाए।
वंदिय नमंसिया णं, पंचविहं उग्गहं पुच्छे ॥ ४७८२ ॥ ज्ञात्वा 'तस्य' भरतस्य 'भावं' विषादात्मकं तस्यैव चावग्रहस्वरूपज्ञापनार्थं भगवन्तं वन्दित्वा 5. नमस्कृत्य च णमिति वाक्यालङ्कारे पञ्चविधमवग्रहं पृच्छति ॥ ४७४२ ॥ ततश्च
अट्ठावयम्मि सेले, आदिकरो केवली अमियनाणी । [आव.नि. ४३४]
सकस्स य भरहस्स य, उग्गहपुच्छं परिकहेइ ॥ ४७८३ ॥ अष्टापदे शैले आदिकरः केवली अमितज्ञानी शकस्य च भरतस्य च पुरतोऽवग्रहपृच्छां परिकथयति ॥ ४७८३ ॥ तद्यथा
देविंद-रायउग्गह, गहवति सागारिए य साहम्मी।
पंचविहम्मि परूवितें, णायव्वं जं जहिं कमइ ॥ ४७८४ ॥ देवेन्द्रावग्रहो राजावग्रहो गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्चेति पञ्चधाऽव. ग्रहः । एतस्मिन् पञ्चविधे प्ररूपिते ज्ञातव्यं यद् 'यत्र' देवेन्द्रावग्रहादौ मनसा वचसा वा अवग्रहानुज्ञापनं 'क्रमते' अवतरतीति सङ्ग्रहगाथासमासार्थः । विस्तरार्थस्तु यथा पीठिकायां 15 "हिडिल्ला उवरिल्लेहिँ बाहिया न तु लभंति पाहन्नं ।" (गा० ६७०) इत्यादिगाथामिरभिहितस्तथैवात्रापि वक्तव्य इति ॥ ४७८४ ॥ .
तं वयणं सोऊणं, देविंदो वंदिऊण तित्थयरं ।
वितरति अप्पणगे उग्गहम्मि जं साहुपाउग्गं ॥ ४७८५ ॥ 'तद्' अवग्रहप्रतिपादकं भगवतो वचनं श्रुत्वा देवेन्द्रस्तीर्थकरं वन्दित्वा यदात्मीयेऽवग्रहे 20 साधूनां प्रायोग्यं सचित्तमचित्तं मिश्रं वा तत् तदानीं सर्वमपि वितरति, अनुजानातीत्यर्थः ॥ ४७८५॥
सोउं तुट्ठो भरहो, लद्धों मए एत्तिओ इमो लाभो ।
वितरति जं पाउग्गं, केवलकप्पम्मि भरहम्मि ॥४७८६ ॥ भरतोऽपि भगवतो वचनं श्रुत्वा 'तुष्टः'.प्रमुदितः 'अहो ! मयैतावान् लाभो लब्धः' इति 25 परिभाव्य 'केवलकल्पे' सम्पूर्णेऽपि भरते यत् 'प्रायोग्यं साधूनामुचितं सचित्तादिकं तत् सर्वं वितरति ॥ ४७८६ ॥
पंचविहम्मि परूवितें, स उग्गही जाणएण घेत्तन्यो । अण्णाणेणोग्गहिए, पायच्छित्तं भवे तिविहं ॥ ४७८७ ॥ इक्कड-कठिणे मासो, चाउम्मासा य पीढ-फलए।
कट्ठ-कलिंचे पणगं, छारे तह मल्लगाईसु ॥ ४७८८ ॥ पञ्चविधेऽवग्रहे प्ररूपिते सति सम्प्रति तात्पर्यमुच्यते-स खल्ववग्रहो जानता ग्रहीतव्यः । अथाज्ञानेनावगृह्णाति अजानन्नित्यर्थः ततस्त्रिविधं प्रायश्चित्तं भवति ॥ ४७८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org