________________
९७६ सनियुक्ति-लधुभाव-वृत्ति के बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ११-१२
अजंतिया तेण-सुणा उर्वति, गोणादि णिस्संकमभिवंति ।
तेणादिया तत्थ चिलीय दोसा, कडादिकम्मं तु सजीवघातं ॥ ३५०१ ॥ 'तत्र' विवृतगृहे 'अयन्त्रिताः' कुड्याद्यभावादनिरुद्धप्रचाराः स्तेन-शुनका उपायान्ति, ततश्चोपकरणहरणादयो दोषाः । गवादयश्च शृङ्गाद्यभिघातेन निःशङ्कमभिवन्ति । अथ तत्र पार्थतश्चिलिमिलिका दीयते ततः "चिलीए" त्ति “सूचनात् सूत्रम्' इति कृत्वा चिलिमिलि कायाः स्तेनादयो दोषाः, ते तामपहृत्य गच्छेयुरिति भावः । “कडाइ" त्ति अथ कटं किलिञ्चं वा कारयित्वा तत्र स्थापयन्ति तत आधाकर्मदोषनिष्पन्नं प्रायश्चित्तं 'सजीवघातम्' इति कटादौ निष्पाद्यमाने येषां जीवानामुपघातो भवति तन्निष्पन्नं पृथक् प्रायश्चित्तम् ॥ ३५०१ ॥
अथ वंशीमूलं व्याचष्टे10 जाओ(जो आ)वणे वी य बहिं घरस्स, अलिंदओ वा अवसारिगा वा ।
गेहस्स पासे पुर पिट्ठओ वा, तं वंसिमूलं कुसला वदंति ॥ ३५०२ ॥ यो गृहाद बहिर्धाराप्रवेर्तिस्थडिकारूप अलिन्दकः, या वा 'अपसारिका' पटालिका, कुत्र? इत्याह-गेहस्य पार्थे वा पुरतो वा पृष्ठतो वा तद् वंशीमूलं नाम गृहं 'कुशलाः' तीर्थकरादयो वदन्ति । अत्र तिष्ठन्तीनां प्रतिबद्धसूत्रोक्ता दोषाः ॥ ३५०२ ॥ 16 अथ वृक्षमूला-ऽभावकाशयोदोषानाह
अर्हि व दारुगादी, सउणगपरिहार पुप्फ-फलमादी।
एवं तु रुक्खमूले, अब्भावासम्मि सिण्हाई ॥ ३५०३ ॥ ___ अस्थि वा दारुकं वा आदिशव्दाद् लेष्ठुकादिकं वा वातेन चालितं सत् प्रपतेत् , शकुनाः
पक्षिणस्तेषां सम्बन्धी परिहारः-पुरीषमुपरि निपतेत्, पुष्पाणि वा फलानि वा आदिशब्दाद् 26 पत्राणि वा पतेयुः, एषु यथायोगमात्म-संयमविराधना मन्तव्या । एवं वृक्षमूले । वृक्षस्याधो. वर्तिनि वा गृहे ~ तिष्ठन्तीनां दोषाः । अभावकाशे तु सिम्हा-अवश्यायो भवेत् , आदिशब्दात् । सचितं रजः प्रपतेदित्यादिपरिग्रहः । अवश्यायेनाद्रीभूतानां विसूचिकादिभिरात्मविराधना मन्तव्या । यत एते दोषा अतो न आगमनगृहादिषु स्थातव्यम् । भवेत् कारणं येन तत्रापि स्थीयते ।। ३५०३ ॥ किम् ? इत्याह
अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीये ।
वाडगआगमणगिहे, इयरम्मि य णिग्गहसमत्थे ॥ ३५०४ ॥ अध्वनिर्गतादयस्विकृत्वो निर्दोषां वसतिं मार्गयित्वा यदि न प्रामुवन्ति ततो वाटकस्य मध्यवर्ति यद् आगमनगृहं-देवकुलादिकं तत्र वसन्ति । कथम् ? इत्याह-इतरः-शय्यातरः स यदि निग्रहसमर्थः-जितेन्द्रियः प्रत्यनीकनिवारणक्षमश्च भवति ततस्तत्र वस्तव्यम् , नान्यथा 30॥ ३५०४ ॥ अथेदमेव स्फुटतरमाह
जं देउलादी उ णिवेसणस्सा, मज्झम्मि गुंत्तं सुपुरोहडं च । १ वर्तिन्याश्चतुष्किकायाः पर्यन्ते अलि भा० ॥ २-३ एतदन्तर्गतः पाठः भा० नास्ति । ४ वागड़ आग का विशेषचूर्णौ च ॥ ५ वाकटस्य का० ॥ ६°त्तं च पु तामा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org