SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २०१७-२५] प्रथम उद्देशः । ५८५ ग्येऽवकाशे वाचयति ॥ २०२० ॥ तत्र चेयं सामाचारी तस्स जई किइकम्मं, करिति सो पुण न तेसि पकरेइ । जा पढइ ताव गुरुणो, करेइ न करेइ उ परेणं ॥ २०२१ ॥ 'तस्य' यथालन्दिकस्य 'यतयः' गच्छवासिनः साधवः कृतिकर्म कुर्वन्ति, ‘स पुनः' यथालन्दिकः 'तेषां' गच्छवासिनां पर्यायज्येष्ठानामपि कृतिकर्म न करोति । यावच्च ‘पठति' अर्थशे-5 पमधीते गुरोरपि तावदेव करोति, परतस्तु न करोति, तथाकल्पत्वात् ॥ २०२१ ॥ अमीषामेव मासकल्पविधिमाह___एको वा सवियारो, हवंतऽहालंदियाण छ ग्गामा। मासो विभजमाणो, पणगेण उ निहिओ होइ ॥ २०२२ ॥ यदि गुर्वधिष्ठितमूलक्षेत्रस्य बहिरेको ग्रामः 'सविचारः' सविस्तरो वर्तते। स ईह विचारशब्देन 10 विस्तार उच्यते, ततः सह विचारेण वर्त्तते यः स सविचारो विस्तीर्ण इत्यर्थः ।। __ आह च चूर्णिकृत्-सवियारो त्ति वित्थिन्नो । ततस्तस्मिन् ग्रामे षड् वीथीः परिकल्प्य यथालन्दिका एकैकस्यां वीथ्यां पञ्च पञ्च दिवसान् भिक्षामटन्ति, तस्यामेव च वीथ्यां वसतिमपि गृह्णन्ति । एवं प्रतिवीथ्यां "पणगेण" रात्रिन्दिवपञ्चकेन मासो विभज्यमानः सन् षभिरहोरात्रपञ्चकैः निष्ठितः' सम्पूर्णो भवति । अथ नास्ति 15 विस्तीर्णो ग्रामस्ततः "हवंतऽहालंदियाण छ ग्गामा" इति मूलक्षेत्रपार्थतो ये लघुतराः षड् ग्रामा भवन्ति तेषु प्रत्येकं पञ्च पञ्च दिवसान् पर्यटतां यथालन्दिकानां तथैव षभिरहोरात्रपञ्चकैर्मासः परिपूर्णो भवतीति ॥ २०२२ ॥ गतं गच्छप्रतिबद्धयथालन्दिकद्वारम् । अथोपरि दोषा अपवादश्चेति द्वारद्वयमाह मासस्सुवरिं वसती, पायच्छित्तं च होंति दोसा य। बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए ॥ २०२३ ॥ मासस्य उपलक्षणत्वात् चतुर्णों वा मासानामुपरि यदि वसति तदा प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च 'ग्लाने' ग्लानार्थम् उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्योर्द्धमप्यवस्थानलक्षणं भवति । तत्र च वसतिभैक्षं च यतनया ग्रहीतव्यम् ॥ २०२३ ॥ अथैनामेव नियुक्तिगाथां विवरीषुः प्रायश्चित्तापत्तिस्थानानि तावदाह परिसाडिमपरिसाडी, संथाराऽऽहार दुविह उवहिम्मि । डगलग-सरक्ख-मल्लग-मत्तगमादीण पच्छित्तं ॥ २०२४ ॥ ओवासे संथारे, वीयारुच्चार वसहि गामे य । मास-चउम्मासाधिगवसमाणे होइमा सोही ॥ २०२५ ॥ संस्तारको द्विधा-परिशाटी अपरिशाटी चें। परिशाटी-तृणमयः स परिशटति-उत्पाठ्य-30 4 एतदन्तर्गतः पाठः मो० ले. पुस्तकयोरेव ॥ २ मो० ले. विनाऽन्यत्र-अथैनामेव विवरीषुः त. डे. का० । अथैतदापत्तिस्थानानि प्रतिपादयति-परि भा० ॥ ३ मो० ले. विनाsन्यत्र-च । यस्य परिभुज्यमानस्य किश्चित् तदन्तर्गतं तृणादि परिशटति स परिशाटीतृणमयः संस्तारकः, तद्विप° भा० ॥ ४॥ एतदन्तर्गतः पाठः त• डे• कां• नास्ति.॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy