________________
भाव. चपलः
भाष्यगाथाः ७५२-५६] पीठिका ।
२३५ 'कार्यविपत्ति' कार्यस्य विनाशं दृष्ट्वा कश्चिद् भणति, यथा-मया पूर्वमेव विज्ञातम् 'इदं कार्यमेवं भविष्यति' । यथा-केनचित् साधुना पात्रं लेपितम् , ततो रूढं सत् कुतोऽपि प्रमादतो भनम् , ततः कश्चिदात्मनो दक्षत्वं ख्यापयन् ब्रवीति-यदैवेदं परिकर्मयितुमारब्धं तदैव मया ज्ञातम् , यथा-'इदं निष्पन्नमपि भङ्ग्यते' । एष एवंविधः अदेशकाले-अनवसरे प्रलपनशीलोऽदेशकालप्रलापी ॥ ७५४ ॥ व्याख्यातश्चतुर्विघोऽपि भाषाचपलः । अथ भावचपलमाह
जं जं सुयमत्थो वा, उद्दिष्टुं तस्स पारमप्पत्तो।
अन्ननसुयदुमाणं, पल्लवगाही उ भावचलो ॥ ७५५ ॥ यद् यद् आवश्यक-दशवैकालिकादेर्ग्रन्थस्य 'श्रुतं' सूत्रमथों वा 'उद्दिष्टं प्रारब्धं 'तस्य' इत्यत्रापि वीप्सा गम्यते तस्य तस्य पारमप्राप्तः सन् 'अन्यान्यश्रुतद्रुमाणाम्' आचारादिरूपा-10 परापरशास्त्रतरूणां पल्लवान्-तन्मध्यगतालापक-श्लोक-गाथारूपान् सूत्रार्थलवान् खरुच्या ग्रहीतुं शीलमस्येति पल्लवग्राही, 'तुः' पुनरर्थे, य एवंविधः स पुनः 'भावचलः' भावचपलो मन्तव्यः ॥ ७५५ ॥ भवेत् कारणं येन चञ्चलत्वमपि कुर्यात् । किं पुनस्तत् ? इत्याह
तेणे सावय ओसह, खित्ताई वाइ सेहवोसिरणे ।
आयरिय-बालमाई, तदुभयछेए य विइयपयं ॥ ७५६ ॥ 15 नभयेन श्वापदभयेन वा द्रुतमपि गच्छेद्, न दोषः । ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेद् न च प्रायश्चित्तमाप्नुयात् । “खित्ताइ"ति क्षिप्तचित्त आदिशब्दाद दृप्तचित्तो यक्षाविष्ट उन्मादप्राप्तश्च एते स्थानचञ्चलत्वमपि ॥ कुंड्यादिस्पर्शन-हस्तभ्रामणादिकं कुर्युः न च प्रायश्चित्तमामुयुः, अनात्मवशत्वाद् । “वाइ"ति वादिनो बुद्धिं परिभवितुमलीकमपि ब्रूयात्, यथा-रोहगुप्तेन पोशालपरिव्राजकमतिव्यामोहनार्थ जीवा अजीवा 20 नोजीवाश्चेति त्रयो राशयः स्थापिताः (ग्रन्थानम्-१५००)। तथा शैक्षस्य पण्डकादेर्युत्सर्जने विधेये तं निर्भर्त्सयन् असभ्यमपि भणेत् , येनोद्वेजितः खयमेव गणाद् निष्क्रम्य गच्छेत् । आचार्या वा कुतश्चित् प्रमादस्थानाद् नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात् , यथाक्षमाश्रमणाः! अमुकः संयतोऽमुकश्च श्रावको मम पुरत इदं भणति, यथा-त्वदीया गुरवः आइत्यम्भूतांप्रमादप्रतिसेवनामासेवमाना अचिरादेव » पार्श्वस्थीभवन्तः सम्भाव्यन्ते; एतच्च मया 25
१ एषोऽदेशकालप्रलापी ॥ डे० त० विना ॥२ स्तेनाः प्रतीताः, श्वापदाः सिंह-व्याघ्रादयः, तेषां भयेन द्रुतं द्रुतमपि ग° भा०॥ ३N» एतचिह्नान्तर्गतः पाठः भा० त०॥ ४ तथा शैक्षः पण्डकादिकः स व्युत्सर्जनीयो भवेत्, ततस्तस्य व्युत्सर्जने खर-परुनिर्भसंयन्नसभ्यमपि भणति, येनो भा० ॥ ५» एतच्चिहान्तर्गतः पाठः भा० त०॥ ६ पार्श्वस्थविहा. रिणो भविष्यन्ति; अत एव मया पूर्वमेव भवतां विज्ञप्तमभूत्, यथा-युष्माकमेवमाचरतां महानपयशःप्रवादः समुच्छलिष्यति, तत इदानी भा० । “आयरिया वा दोसेसु न उवरमंति, पच्छा अदेसकालपलावित्तणं पि करेजा, जह-अमुओ अमुओ अमुगं भणति तुभं, तेणं तो मए तुभ कहितं, जहा-अयसो होहिति पच्छा, तो तेण भणंतेण उवरमंति" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org