________________
INTRODUCTION
11
संवृत्तास्म इतिवद् उपादेयत्वम् । यत् तु शोकादयोऽपि रत्यादिवत् स्वप्रकाशज्ञानसुखात्मका इति तदुन्मत्तप्रलपितम् । किञ्च सामाजिकेषु मृतकलत्रपुत्रादीनां विभावादीनां शोकादिस्थायिभावस्य चर्वणीयेन अजमहीपालादिना सह साधारण्यम् , अनुपातादिदर्शनात् । वर्णनीयतन्मयीभवनं चापेक्षितमिति चेत् , कथं ब्रह्मानन्दसहोदररसोद्बोधः, कथं वा नामाङ्गल्यम् । अत एव केचिदजविलापादिकं न पठन्ति । बीभत्से तु मांसपूयाद्युपस्थित्या वान्तनिष्ठीवनादिकं यन्न भवेत् तदेवाश्चर्यम् । कुतस्तादृशपरमानन्दरूपरसोद्बोध इति । एवं भयेऽपि । तथा शान्तस्य त्यक्तसर्ववासनेषु भवतु नाम कथञ्चिद रसत्वं, विषयिषु पुनः सर्वविषयोपरैमस्थित्या कथं रसत्वम् । तदुक्तम्
न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा।
रसः प्रशान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः ॥ एवं वीररौद्रयोर्न भेदः । विभवादिसाम्यात् । न च स्थायिभेद एव भेदकः । तस्यापि नियामकमुखप्रेक्षित्वात् । यत् तु
रक्तास्यनेत्रता रौद्रे युद्धवीरात् तु भेदिनी। इत्याहुः । तन्न । क्रोधसञ्चारिणि वीरे तस्याः सुलभत्वेन भेदकत्वानुपपत्तेः । न च रौद्रे अविवेकत्वस्य वीराद् भेदकस्य संभवात् भेद इति वाच्यम् । क्रोधसञ्चारिणि वीरेऽप्यविवेकत्वस्य संभवात् । दानवीरादीनां प्रभावातिशयवर्णन एव कवीनां तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्यनामाऽपि न रसः । भावेनैव गतार्थत्वात् ।
ननु कथमजविलापादिकं कविभिर्वर्ण्यत इति चेत् उच्यते-तेषामजमहीपतिप्रभृतीनां स्वखप्रियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव चाजमहीपतेः खप्रियामिन्दुमती प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये । एवं भयातिशयवर्णनं तत्तद्वयक्तीना मार्दवप्रतिपादनाय । वस्तुतस्तु कविभिः स्वशक्तिप्रदर्शनार्थमेव पद्मबन्धाबन्धादिनिर्माणवत् तत्र तत्र प्रवर्त्यत इति । (२१-२२ का. प्र. खं.)
In the above quotations there are two controversial points - the first about the pleasant nature of all the Rasas and second about the number of Rasas. The first controversy is very old. Bharata says यथा हि नानाव्यञ्जनसंस्कृतमंन्न भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यजितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाश्च 'हर्षादींश्चाधिगच्छन्ति तस्मान्नाट्यरसा इत्यभित्र्याख्याताः । (९३ ना. शा. नि. सा. द्वि. सं.). Thus in this view it is held that the Rasas, presumably all, are pleasant. Those, however, who think that all the Rasas are not pleasant interpret the passage differently. As Abhinavagupta says अन्ये त्वादिशद्धेन शोकादीनामत्र संग्रहः । (२९० ना. शा. Vol. I. G.0. S.). Abhinavagupta's own view is, however, that all Rasas are pleasant. He rejects the other opinion by saying . स च न युक्तः । सामाजिकानां हर्षेकफलं नाट्यम्, न शोकादिफलम् । (ibid ) He emphatically says अस्मन्मते तु संवेदनमेवानन्दघनमाखाद्यते। तत्र का दुःखाशङ्का । केवलं तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारस्तदुबोधने चाभिनयादिव्यापारः । (२९३ ibid).
It would be interesting to know who were the critics that held the view that all the Rasas are not pleasant. Dr. Raghavan notes the Sukha-Duhkhātmakatā view of Rasa of one Rudrabhațagiven in
1. There are some mss. of N. S. which do not give this reading. The ___Chaukhamba edition has not accepted it, the G. O. S. edition, however, has it. 2. Different from Rudrata.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org