________________
काव्यप्रकाशखण्डन
संप्रति इदानीं कालः समयो रम्यः शोभनः अभ्यु [ १०५५, २ ] पैति आगच्छति । कीदृशः १ अविरलं निरन्तरं कमलानां विकासः प्रफुल्लता यत्र सः । सकलानां समस्तानाम लीनां भ्रमराणां मदो यत्र सः । कोकिलानामानन्दो यत्र सः । लोकानां जनानामुत्कण्ठा औत्सुक्यं तत्करस्तत्कर्त्ता इत्यर्थः ।
१२
यथा -
गम्यतामन्यतः पान्थ ! तवेह वसतिः कुतः । दोषाय स्यादलं पान्थ ! वसतिर्योषिदालये ॥
भो गृहिणि । वासं देहीति वसतियाचकस्य कस्यचिद् वचनममुना वाक्येनोन्नीयते । असंभाव्यं लोकातिक्रान्तिगोचरं प्रतिवचनम्, यथा
ü
उत्तरः श्रुतिमात्रतः । (का० १२१, द्वि० पा० )
SHAD
का विष ( स ) मा दिवई किं दुल्लभं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ ॥
प्रश्नपरिसंख्यायामन्यव्यपोह एव तात्पर्यम् । इह तु वाच्य एव विश्रान्तिरित्यनयोर्भेदः । कुतोऽप्यलक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश (इयते ॥
(का० १२२, उ० )
धर्मेण केनचिद् यत्र तत्सूक्ष्मं प्रविचक्षते ।
(का० १२३, पू० )
कुतोऽपि आकारादिङ्गिताद् वा । सूक्ष्मः तीक्ष्णमतिवेद्यः । यथा - वक्रस्यन्दिस्वेदविन्दुप्रबन्धैर्दृष्ट्रा भिन्नं कुङ्कुमं कामि (पि) कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्याः स्मित्वा पाणौ खड्गलेखां लिलेख || कापि वयस्या सखी तन्व्याः नायिकायाः पुंस्त्वं पौरुषं व्यञ्जयन्ती तस्याः पाणौ हस्ते खड्गलेखां खङ्गाकृतिं लिलेख । किं कृत्वा ? कण्ठे कण्ठस्थले भिन्नं च्युतं कुङ्कुमं दृष्ट्वा । कैः : ? वक्त्राद् मुखात् स्यन्दिभिः खेदविन्दूनां प्रबन्धैः समूहैरित्यर्थः । मत्राकृतिमालोक्य कयापि वितर्किते पुरुषायिते असिलेखालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीते पुंसामेव कृपाण - पाणितायोग्यत्वात् ।
Jain Education International
उत्तरोत्तरमुत्कर्षो भवेत् सारः परावधिः ॥ (का० १२३ उ० ) परः पर्यन्तभागः अवधिरुत्कर्षसीमा यत्र धाराधिरोहिततया तत्रैव विश्रान्तेः । यथा - भोजनभूषणमवलाकरकमलावर्त्तितं दुग्धम् ।
तदलङ्कारः कदलं तदलङ्कारः शर्करासारः ॥
समाधिः सुकरं कर्म' कारणान्तरयोगतः । (का० १२५, पू० )
सुकरं सुकरत्वेन विवक्षितमित्यर्थः । [ १०५६, १ ] यथा -
L
१ मु. पु. 'कुतोऽपि लक्षितः' इति पाठो लभ्यते । २ 'परिचक्षते' ते मु. पु. ३. मु. पु. 'कार्य' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org