SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] . सुकृतसंकीर्तनमहाकाव्यम् । श्रीमन्त्रिमुख्य ! भवदीयविपक्षलक्ष-दुष्कीर्तिभिस्त्रिभुवनं परितः परीतम् । काहं स्फुरामि तव कीर्तिरितीव वक्तुं, कर्णोपकण्ठमगमत् पलितच्छलेन ॥ १८ श्रीसोमान्वयवार्धिवर्धनविधो ! मन्त्रीश ! वामीश्वरी लीलातल्प ! भवानकल्पि जगतः साधारणो वेधसा । इत्थं दाननिदानवैभवभवद्भालस्थलस्थापितै __रेवैभिर्विभवाक्षरैर्विभवभाग दुःस्थोऽपि सौस्थ्यं दधौ । कोपे पावकतप्तमार्गगसमं चक्षुः क्षिपन्ती पुनः, प्रीतो मौक्तिकदामसोदरमियं भूरेव मन्त्रीश्वर ! । उल्लासान्निधनं धनं च ददती प्रत्यर्थिनामर्थिनामप्येषा किमु चापवल्लिरतुला किं कल्पबल्लिस्तव ? ।। २० आन्दोलयन्ति कृतिनस्तव कर्णदोला-लीलासु.ये गिरमुदारमुदा रसाढ्याम् । भूकल्पवृक्ष ! तनुषे निजमौलिकम्पात् , तेभ्यः फलं दिवि यशःकुसुमान्युदस्यन् ॥ २१ का शक्तिर्युसदां सुधारुचिरसावेकः क्षयी पीयते, तैः पक्षान्तरितोऽखिलैरपि समे निघ्नन्तु दैत्यास्ततः । अक्षीणस्य सदा त्वदाननसुधाभानोः पिबन् वाक्सुधा मेकः सम बलस्य वीरधवलो यावन्न सन्नह्यते ॥ अंसौ ते सचिवावतंस ! निबिडाहङ्कारकारस्करा वष्टम्भस्थिरपौरुषद्विपमहाकुम्भभ्रमं भेजतुः । कुम्भावभ्रमुभर्तुरुद्धरहरिस्फूर्जत्करास्फालन त्रस्ताऽसौ परिहृत्य नित्यसुखिता विश्राम्यति श्रीरिह ॥ बुद्धिलतेव तव विस्फुरिता समस्त-शास्त्रामृतैरिह भृते हृदयालवाले । श्रीवस्तुपाल ! भुवि यत्प्रभवा प्रसून-मालेव मौलिषु न कैरघटि त्वदाज्ञा ? ॥ २४ श्रीसोमान्वयकुट्टिमोद्भुततुलापट्टः पतदुर्बल-श्रेयोयष्टिरनिष्टविष्टपविपत्सन्दोहलोहार्गला।। श्रीविश्रामतरुः पराक्रमकरिस्तम्भो रिपुक्षोणिभृद्-दम्भोलिस्तव भाति गूर्जरधरोद्धारैकधुर्यो भुजः ॥ २५ असौ भृशं सन्ततसञ्चरिष्णु-लक्ष्मीपदालक्तकरक्तकान्तिः । भवत्कराम्भोरुहवद् विभाति, कृष्णारिनारीचिहुरालिपालिः ॥ असन्नं सन्नद्धे यदिह विहरन्मार्गणगण-स्मयस्मेरे मेरोः कटकमटितः कल्पविटपी । इति व्यक्तं युक्तः सचिवकुलकोटीर ! करज-वजव्याजेनायं मणिमुकुटबन्धस्तव करे ॥ २७ किल जगति भवद्गतिं विलोक्य, स्वगतियशःक्षितिभीरवः सुरेभाः । सचिव ! तव भुजेऽपि भूमिभारं, दधति पदात् पदमप्यमी न चेलुः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy