________________
॥सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ॥
-- -- अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ निवसन्त्यनेके तत्र जैना उकेशवंशजाः । धनाढ्या नृपसदृशा धर्मकर्मपरायणाः ॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः ।। बाल्य एवागतो यो हि कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्या धृतधर्मार्थनिश्चयः ॥ कुशाग्रया स्वबुद्ध्यैव सद्वृत्त्या च सुनिष्ठया। उपाय॑ विपुलां लक्ष्मी जातो कोट्यधिपो हि सः ।। तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । पतिव्रता प्रिया जाता शीलसौभाग्यभूषणा ॥ श्रीबहादुरसिंहाख्यः सद्गुणी सुपुत्रस्तयोः । अस्त्येष सुकृती दानी धर्मप्रियो धियां निधिः ॥1 प्राप्ता पुण्यवताऽनेन प्रिया तिलकसुन्दरी । तस्याः सौभाग्यदीपेन प्रदीप्तं यद्गृहाङ्गणम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्ति ज्येष्ठपुत्रः सुशिक्षितः । सः सर्वकार्यदक्षत्वात् बाहुर्यस्य हि दक्षिणः ॥: नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुर्वीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा प्राप्तभक्तिपरायणाः । विनीता: सरला भव्याः पितुर्मार्गानुगामिनः ॥ अन्येऽपि बहवश्चास्य सन्ति स्वस्रादिबान्धवाः । धनैर्जनैः समृद्धोऽयं ततो राजेव राजते ।।
अन्यच्चसरस्वत्या सदासत्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्येष सदाचारी तच्चित्रं विदुषां खलु ॥ न गर्यो नाऽप्यहंकारों नविलासो न दुष्कृतिः । दृश्यतेऽस्य गृहे क्वापि सतां तद् विस्मयास्पदम् ।। भक्तो गुरुजनानां यो विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरक्तोऽस्ति प्रीतः पोष्यगणेष्वपि ॥ देश-काल स्थितिज्ञोऽयं विद्या-विज्ञानपूजकः । इतिहासादिसाहित्य-संस्कृति-सत्कलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचारार्थ सुशिक्षाया व्ययत्येष धनं घनम् ।। गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदाङ्कितः । दत्त्वा दानं यथायोग्यं प्रोत्साहयति कर्मठान् ॥ एवं धनेन देहेन ज्ञानेन शुभानिष्ठया । करोत्ययं यथाशाक्त सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसंगेन स्वपितुः स्मृतिहेतवे । कर्तु किंचिद् विशिष्टं यः कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः परम् । तस्मात्तज्ञानवृद्ध यर्थ यतनीयं मया वरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्तिनिकेतने | सिंघीपदाङ्कितं जैनज्ञानपीठमतिष्ठिपत् ॥: श्रीजिनविजयो विज्ञो तस्याधिष्ठातृसत्पदम् । स्त्रीकर्तु प्रार्थितोऽनेन ज्ञानोद्धाराभिलाषिणा ॥ अस्य सौजन्य-सौहार्द-स्थैयौंदार्यादिसद्गुणः । वशीभूयातिमुदा येन स्वीकृतं तत्पदं वरम् ॥ यस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा ग्रन्थमाला प्रकाश्यते ॥ विद्वज्जनकृतालादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती ॥:
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
-
-
-
-
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only