________________
पृ०८४. पं०६.] टिप्पणानि
१६७ पृ० ८१. पं० २७. 'सिद्धं प्रवचनं'-तुलना-"कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनम् ।” [ सिद्ध० द्वात्रिं० २१।१ ] प्रमाणतं० पृ० ११६ ।
पृ० ८२. पं० ५. 'पुरुषातिशयो'–पूर्वपक्षः-"पुरुषातिशयापेक्षं यथार्थमपरे विदुः। इष्टोऽयमर्थः [ प्रत्येतुं शक्यः ] सोऽतिशयो यदि ।। अयमेवं नवेत्यन्यदोषा निर्दोषतापि वा । दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥” [प्रमाणवा० १।२२०-२१] 5
तुलना-"पुरुषातिशयोऽज्ञेयो विप्रलम्भी किमिष्यते ॥” [प्रमाणसं० पृ० ११६ ] "विप्रलम्भशङ्कानुबन्धात् इत्यधिकारिकारिकां विप्रलम्भो वचनं तस्याशङ्का तस्या अनुबन्धात् कारणात् पुरुषातिशयः किमिष्यते ? नेष्टव्य इत्यर्थः तदनुबन्धिकारणं दर्शयन्नाह-चेष्टते व्याप्रियते वेद्यादि यथाकूतम् , क इत्याह-वीतदोणे वीतरागः, क इव दोषवदिति । दूषणान्तरमाहपुरुषातिशयः सन्नपि ज्ञातु यद्यशक्यः किमिष्यते ? [ सिद्धिवि० टी० पृ० ३९३ B.] 10
पृ० ८२. पं० १२. सिद्धहिंसा'-तुलना-"प्रसिद्धहिंसानृतस्तेयाब्रह्मपरिग्रहस्वविपक्षगुणोत्कर्षमाशंसमानः यथार्थदर्शनादिगुणो नेति निःशङ्क नश्चेतः।" [प्रमाणसं० पृ० ११६]
पृ० ८२. पं० १५. 'हेयोपादेयतत्त्वस्य'-पूर्वपक्षः-"हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः । प्रधानार्थाविसंवादनुमानम्परत्र वा ॥” [ प्रमाणवा० ११२१९ ]
पृ० ८२.५० २८. 'भावनापरिपाकतः' पूर्वपक्षः-" तस्माद् भूतमभृतं वा यद् 15 यदेवाभिभाव्यते । भावनापरिनिष्पत्तौ तत्स्फुटाकल्पधीफलम् ।।" [प्रमाणवा० ३।२८५ ] "भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् " [ न्यायबि० पृ० २० ] "किंच, ये ये विभाव्यन्ते ते ते भान्ति परिस्फुटम् । भावनापरिनिष्पत्तौ कामादिविषया इव ।। ' 'भूतार्थभावनोद्भूतेः प्रमाणं तेन तन्मतम् ।” [ तत्त्वसं० पृ० ८९६ ]
__तुलना-" चतुःसत्यभावनोपायं निर्वाणं सकलं कथम् मिथ्याज्ञानतः तत्त्वप्रतिपत्तिः। 20 कथमतत्त्वभावनाप्रकर्षपर्यन्तजं तत्त्वज्ञानश्च । मिथ्यैकान्ताविशेषे नैरात्म्येतरपक्षयोः न कश्चिद्विशेषः ।” [सिद्धिवि० पृ० ३५४-५५] “यदि पुनः चिन्तामामेव प्रज्ञामनुशीलयतां विभ्रमविवेकनिर्मलमनःप्राप्तिः निर्वाणम् , तच्च कथम् अतत्त्वभावनातः, मिथ्याभावनायां तत्त्वज्ञानं कामशोकभयोन्मादादिवत्।” [सिद्धिवि० पृ० ३८७ ]
पृ० ८३. पं० ३. 'निरुपद्रवभूतस्य' तुलना-"निरुपद्रवभूतार्थस्वभावस्य 25 विपर्ययैः । न बाधा यत्नवत्त्वेऽपि बुद्धस्तत्पक्षपाततः॥" [प्रमाणवा० १।२२३, २।२१०]
पृ० ८३. पं० ६. 'यस्तावत् करुणा'-तुलना-लघी० टि० पृ० १३१ पं० १२ । पृ० ८३. पं० १०. 'सन्तानः'-तुलना-लघी० टि० पृ० १३१ पं० ३ ।
पृ०८३.पं० २४. 'विश्वलोकाधिक'-पूर्वपक्षः-"सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः । यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकीर्तने ।।" [ मी० श्लो० पृ० ८८ ] "ज्ञानवान् 30 मृश्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ।। तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञाने तस्य नाक्षोऽपि युज्यते ॥” [प्रमाणवा० २।३०, ३१ ]
१० ८४. पं० ६. 'सकलज्ञस्य'-तुलना-"सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिद्यभिचारिणी। विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः ।।" [ तत्त्वसं० पृ० ६५] प्रमाणसं० पृ० १०० । तत्त्वार्थश्लो० पृ० १३,१४ । “सर्वादृष्टश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः ॥” 35
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org