________________
२४ . दामोदरविरचितं
[कारिका २९.. विद्वन् ! भवतः कुत्र निवास: १- धाराणस्यां गङ्गातीरे। . कस्मिन् दानम् , कुत्र विवाहः ?-द्विजवरवंशे नागरजातौ ॥ सूपका स्थितः पीठे चुल्यां स्थाल्यां महानसे। ज्वलवह्नौ तप्ततोये मध्याहे तन्दुलान् पचेत् ॥ सप्ताधिकरणमुदाहरणम् । एवमन्या अप्यधिकरणोक्तय ऊयाः । इत्यधिकरणोक्तिः॥ छ॥ अथ केवलसंबन्धोक्तावुदाहियते । यथा - .
कस्यैतद् गृहमुन्नतं क्षितिपतेस्तस्यैव राज्ञः पुन:, सौवर्णाण्डकमण्डितोन्नतशिखं पश्यैतदरसान्तिके । [प० ३०-२] . यस्येयं वसुधा सुधाधवलिता कीर्तिश्च शौर्यार्जिते(ता), " श्रीगोविन्दनृपस्य तस्य सुतरामायुश्चिरं वर्द्धताम् ॥ छ । खर्गः सुराणां पाताललोकश्चैष फणाभृताम् । श्रीमद्गोविन्दचन्द्रस्य निःशेष वसुधातलम् ।। धनदस्य धनं भानोः प्रतापो धिषणागुरोः। गोविन्दनृपतेस्त्वेतत् त्रयमप्यमितं मतम् ॥ वदनीरप्रिये कस्य खड्गक्रीडार्जिताः स्त्रियः। नव वल्लभ पूर्णेन्दुवदनो यः पित(पति)मम ॥९॥ एवमन्या अपि लिङ्गादिविशिष्टसंबन्धस्योक्तय ऊह्याः । इति संबन्धोक्तिः ॥ छ ॥ . एवमेकैकविवक्षायां नवैवोक्तयः । अथ याद्युक्तिभेदप्रस्तारार्थ वृत्तं सूत्रम् - आद्यमाद्यमितरेषु निक्षिपेदुक्तिभेदविषये द्वयोर्द्वयोः। ...
आद्यहीनयुगलेष्वथादिमं निक्षिपेत् त्रिचतुरादिभित्तये ॥ अयमर्थः - लिङ्गार्थः, क्रिया, कर्ता, कर्म, करणम् , संप्रदानम्, अपादानम् , [ अधिकरणम् ] संबन्धः - इत्यमी नव पदार्थाः । एषां चैकैकस्य संक्षिप्ता उक्तयो यथा
कोऽयम् ?-छात्रः।१॥ किं करोति ?-पठति । २॥ कः पठति ?- अयमेव । ३॥ किं पठति ?- शास्त्रम् । ४ ॥ केन पठति !-पुस्तकेन । ५॥ कस्सै पठति ?- आत्मने । ६ ॥ कुतः पठति ?-उपाध्यायात् । ७॥ [५० ३१-१] क स्थितः पठति ?-गृहे । ८॥ कस्य ! - उपाध्यायस्यैव । ९॥ एवं नव ॥ * ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org