SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ *६* दामन्दरविरचितं [ कारिका २५-३५ ] - लिङ्गं क्रिया ततोऽपि च कारकपदकं ततश्च सम्बन्धः । आमंत्रणं च दशमं किन्त्वेतत् केवलं नोक्तौ ॥ २६ ॥ एषां चैकयादिक्रमेण लोकैर्विवक्षितानां स्युः । पञ्चशतान्युक्तीनामेकादशसंयुतान्येव ॥ २७ ॥ कालत्रयमथ च क्त्वा-तुम् - शन्तृङभीक्ष्णतादयो लिङ्गम् । संख्या-पुरुषावुक्तानुक्तत्वे भेदहेतवस्तथैषाम् ॥ २८ ॥ . एतद्भेदवशात् पुनरुक्तीनां या भिदो न ताः कथिताः -- यस्माद् धर्मिणि विदिते सुखलभ्यास्तद्गता धर्माः ॥ २९ ॥ • ॥ इत्युक्तिभेदव्यक्तिः ॥ ४ ॥ [ १०२-२ ] [ ४. लेखलिखनविधिनामकप्रकरणम् । ] अथ कथयिष्ये लिखनक्रममिह लेखस्य पूर्वसूरिकृतम् । येन प्रबोधितार्थो निरादरो वाचिके लोकः ॥ ३० ॥ स्वस्त्यादिरिति प्रान्तस्तिथि- वारसमर्थितो भवति लेखः । स्पष्टाक्षरः स्फुटार्थो वार्तासमसंस्कृताऽऽत्मा च ॥ ३१ ॥ प्रस्थाप्यते यतोऽसौ पञ्चम्यन्तं सदैवतनाम | यत्र तु नेयो लेखः सप्तम्यन्तं लिखेत् तदिह ॥ ३२ ॥ लेखप्रस्थापयितुर्नाम्नः प्रथमाऽथवा तृतीया स्यात् । यस्य कृते तस्यं पुनः षष्ठी देयाद द्वितीया वा ॥ ३३ ॥ महतः स्थानं नाम च यथोचितं पूर्वमेव लिखनीयम् । तदनन्तरमितरस्य श्रीशब्दाद्यं च योग्यत्वे ॥ ३४ ॥ माता पिता पितृव्यो ज्येष्ठो भ्राताऽथ मातुलः श्वशुरः । 'नृप-गुरु-सेव्या विद्या- तपोऽधिकाद्या महान्तोऽमी ॥ ३५ ॥ . 1] थेषां 2 नृपकुरु° । Y Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy