SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ . पण्डितप्रवर दामोदर-विरचितं उक्ति व्यक्ति प्रकरणम् । [॥ मूलभूताः कारिकाः ॥] ॥ नमो वाग्देव्यै ।। [१. क्रियोक्तिव्यक्तिनामकप्रकरणम् ।]. नानाप्रपञ्चरचना बहि[कृतं सारभूतमेकं यत् । नत्वा तत्वं वाचामुक्तिव्यक्ति विधास्यामः ॥१॥ स्यादि-त्यादी वृत्वा श्रुत्वा लिङ्गानुशासनं किञ्चित् । उक्तिव्यक्ति बुद्ध्वा बालैरपि संस्कृतं क्रियते ॥२॥ यां वक्तुं किमपि भवेदिच्छा या (सा) कीर्तिता विवक्षेति । तदनु च तदनुगतं यद् भाषितमिह तां वदन्त्युक्तिम् ॥३॥ सा चंखपरविवक्षानुगताकांक्षानिवृत्तिमुत्पाद्य । लोकानां व्यवहारे हेतुः स्यादिन्द्रियाणीव ॥ ४ ॥ तस्मात् ता प्रबोधो यावत्या यादृशा च सर्वस्य । भवति व्यवहारविधौ लोकैः सा [तादृशी क्रियते ॥५॥ देशे देशे लोको वक्ति गिरा भ्रष्टया यथा (या) किश्चित् । सा तत्रैव हि संस्कृतरचिता वाच्यत्वमायाति ॥६॥ तंत्र च वक्तृविवक्षावशाद' गिरः सुप्-तिङन्तपदसंज्ञाः। संमिश्रा जायन्ते तासां चिह्न पृथग् वक्ष्ये ॥ ७॥ . 1 मूलादर्श वहिकृतं । 2 कृयते । 3 ता वदन्त्युक्तिः । 4 खपरि । 5 आदशी । ६ वाच्यत्वा । 7 °वशां । 8 वक्ष्यो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy