________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
अन्तर्गृहंगतः स्थ [३६ प्र. ] विरस्त्रीपरिशुद्धां देवीं पश्येत् ।
श्रूयते हि देवीगृहे निलीनो' भ्राता भद्रसेनं जघान । मातुःशय्यांतर्गतश्च 'जननीप्रोत्साहितः कनिष्ठपुत्रदत्तयौवराज्यं कारूपविषयाधिपं वज्राख्यं पुत्रो दुर्जयः <जघान इत्युत्तरत्रानुवर्तते > लाजान्मधुनी विषेण 'विपर्यस्य देवी' काशिराजम् । विषदिग्धेन नूपुरेण वैरन्त्यम् । मेखलामणिना "सौवीरम् । जालूषमादर्शन | वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथ जघान । तस्मादेतान्यास्पदानि परिहरेत् ।
जटिलकुहक प्रतिसंसर्ग वा ३६ द्विह्याभिश्च दासीभिः प्रतिषेधयेत् । न चैताः कुल्याः पश्येयुः । अन्यत्र गर्भव्याधिसंस्थाभ्यः " । रूपाजीवाः स्नानशरीराः प्रवर्तितवस्त्रालङ्काराः पश्येयुः । अंशीतिकाः पुरुषाः पञ्चाशत्का 10 वा "स्त्रियो मातापितृव्यञ्जनाः स्थविरवर्षर्धराभ्यागारिकाश्चावरोधानां शौचा शौचं विद्युः स्थापपयेयुश्च स्वामिहिते ।
स्वभूमौ च वसेत्सर्वः परभूमौ न सञ्चरेत् । न च बाह्येन संसर्ग कश्चिदाभ्यन्तरो व्रजेत् ॥ सर्व" चावेक्षितं वस्तु निबद्धागमनिर्गमम् । निर्गच्छेदभिगच्छेद्वा मुद्रासंक्रान्तभूमिकम् ॥
॥ इति विनयाधिकारिके निशांतप्रणिधिः विंशोऽध्यायः ॥
*
१ भद्रसेनस्य । २ भालोड्य । ३ अनिच्छन्ती बलादभिगच्छंतम् । ५] परंतपं ( ? ) .........|
४ व...... धिपं दण्डपारुष्यातिपीडिता ।
६ अयोध्याभिपं स्वभावद्वेषात् ऋतावपि अनभिगता कामेन पीडिता । ७ वृष्णिविषयपतिं द्रव्यापहाराद् विद्विष्टा ।
८ वाकूदंडयोश्च पारुष्यमर्थापहरणाक्रमौ । अन्यासक्तिस्तथा द्वेषः स्त्रीभ्यो भर्तुर्भयास्पदम् ॥ ९ माया योगविदः । ते हि वश्याद्युपदेशाद्वारेणाति ... . कौशलशालिनीभिः ।
1
१०
११ देवी चित्ताऽविचलनार्थम् ।
१२ देवीनां कुलभवाः स्त्रियो भ्रात्रादयः कुमंत्र निषेधार्थम् । १४ स्नानोद्वर्तनं राजकीयवस्त्रालंकार...... ... । १६ अंतश्चराणां कृतकमातापितरः राजप्रणिहिता... ।
५१
........
Jain Education International
१७ सावित्र्यादिमहासती निदर्शनादिभिः ।
१८ आस्तां वासः संचारोऽपि निषिध्यते । परिचयात् स्नेहस्ततः कुमंत्राः संभवति । १९ सर्वं च सारफल्गु कुप्यादि द्रव्यं भवेक्षितं अंतःपुरद्वारस्यैः । .....
( 1 इथं टिप्पणी द्वित्रिपंक्तिपरिमिता विस्तृता ज्ञायते परं विनष्टाक्षराऽतोऽशक्यः पाठोद्धारोऽस्याः । )
१३ तत्र न दोषः । १५ उपतिष्ठेयुः ।
1 gid पुस्तकेषु पश्येदित्यनन्तरं 'न काश्चिदभिगच्छेत्' इत्यधिकं पठ्यते । 2 SJG 'श्रूयते हि ' नास्ति । 3sJa °लीनो हि भ्राता । 4 sJc पुस्तकेषु 'जननी'त्यारभ्य 'वर्तते' पर्यन्ताः शब्दा नोपलभ्यन्ते । तत्स्थाने 'पुत्रः कारूश' मिति पठ्यते । 5sJG मधुनेति । 6 sJG 'वि' पतितः । 7 sJa जालूथ' । 8 s वेण्यागूटं । 9 Jd विडूरथं । 10 sa चैना: । 11 ° सस्थाभ्याम् | 12 sJG शुद्धशरीराः । 13 sJG परिव। 14 JG आ । 15 sJG स्त्रियो वा । 16 sJG 'वरा । 17 SJG द्रव्यं । 18 sa °धिग' | 19 J प्रथमेऽधिकरणे विंशोऽध्यायः 1; G प्रथमाधिकरणे विंशो निशान्तप्रणिधिः ।
For Private & Personal Use Only
5
15
www.jainelibrary.org