SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३८ सटिप्पनकं कौटलीयमर्थशास्त्रम् 'प्रेषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः। उपजापः सुहृद्भेदो गूढदण्डातिसारणम् ॥ बन्धुरत्नापहरणं चारज्ञानपराक्रमः । सैमाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः ॥ स्वदूतैः कारयेदेतत्परदूतांश्च [२८ प्र.] रक्षयेत् । प्रतिदूतावसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ॥ • इति विनयाधिकारिके षोडशोऽध्यायः ॥ [राजपुत्ररक्षणम् ।] रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः 'परेभ्यश्च । पूर्व दारेभ्यः पुत्रेभ्यश्च । १ दूतकर्मोक्तानुक्तं वार्तिकश्लोकैराह । rma ७ गूढानां पुरुषाणां दंडस्य चतुरंगबलस्य गूढं अतिसारणम् । भन्यापदेशैश्चित्रकूटे कोस. गोण्यंतर्गतदंडस्येव । ८ शत्रुबंधः। ११ परमंडलवृत्तांतः। १२ परेषां सारबलादिवधादाक्रमणम् । १३ * १४ तदेतत् । * * * १८ दूते अन्वागते यः संप्रेष्यते स प्रतिदूतः । अवसो गूढ......... १९ दृश्या रक्षिणो विजिगीषुनियुक्ताश्चोरादिरक्षणार्थम् । अदृश्याः कुड्यांतर्हिता गृढपुरुषा......। २० राज्ञो राज्यं स्यात् परिरक्षितम् । तदभावे हि संकीर्ण जगत् स्यादधरोत्तरम् । २१ आसन्नशब्दस्तरतमपर्यंतो ग्राह्यः । तेनासन्ना मंत्र्यादयः । आसन्नतराः पुत्रप्रासादयः । ___आसन्नतमाः दाराः । तेभ्यो रक्षितः। २२ परेभ्यश्चेति । सामंताटविकादिद्विपदचतुष्पदस्थावरजंगमेभ्यश्च । २३ अरिभयादासन्नेभ्यो रक्षा प्रागभिधेयेत्याह पूर्व दा० । २४ आसन्नतमेभ्यः । 1 G दण्डगूढ। 2 SJI दूतापसर्पा । 3s दूतप्रणिधिः षोडशो', J प्रथमेऽधिकरणे दूत षोडशो; G प्रथमाधिकरणे षोडशो दूत। 4 svl Gvl छात्रेभ्यश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy