________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
[मत्राधिकारः ।] कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भां श्चिन्तये [२३ प्र.] त् ।
मन्त्रपूर्वाः सर्वारम्भाः। तस्योद्देशः संवृतः कथानामनिःश्रावी पक्षिभिरप्यनालोक्यः स्यात् । श्रूयते हि शुकसारिकाभिर्भिन्नो मन्त्रः श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति । तस्मान्मत्रोद्देशमनायुक्तो नोपगच्छेत् । उच्छिद्येत हि । मन्त्रभेदी* । मन्त्रभेदो हि दूतामात्यस्वामिनामिङ्गिताकाराभ्याम् । इङ्गितमन्यथावृत्तिः। आकृतिग्रहणमाकारः। तस्य संवरणमायुक्तपुरुषरक्षणमाकार्यकालादिति । तेषां हि प्रमादमदसुप्तप्रलापाः कामादिरुत्सेकः प्रच्छन्नोऽवमतो वा मन्त्रं "भिनत्ति । तस्माद्रक्षेन्मन्त्रमिति प्रतीतम् । . मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च ।
तस्माद्गुह्यमेको मन्त्रयेतेति भारद्वाजः । मन्त्रिणामपि हि मन्त्रिणो भवन्ति । "सैषा मन्त्रिपरम्परा मन्त्रं भिनत्ति । तस्मात
१ पक्षशब्देन कृत्याकृत्यपक्षो गृह्यते। तस्योपग्रहः स्वीकारः। स्वमंडले परमंड[ले]च येन कृतः। २ संधिदुर्गादिकार्याणामारंभान् । ३ तस्योद्देशः प्रदेशो मंत्रणागारमित्यर्थः । ४ .........किभिस्तिर्यग्योनिभिरप्यनालोक्यः अदृश्यः स्यात् ।
६ त एव यतो मंत्रे अधिकृताः। ७ इंगिताकारलक्षणस्य मंत्रभेदद्वारस्य गोपनमनुपलक्षणार्थम् । ८ दूतामात्यस्वामिनां रक्षणं स्वीपानादिपरिहारेण । ९ अन्यान्यपि मंत्रभेदद्वाराणि दर्शयन्नाह । १० कार्यान्तरासंगेन मंत्ररक्षाविस्मरणम् । ११ सुरादिना मत्तता। १२ निद्रालुब्धस्वंम् । १३ ते प्रलापाः। १४ कुड्यान्तरितः। १५ अरक्षणमवज्ञानं कामादीङ्गित विक्रियाः । प्रमादादिप्रलापश्च मंत्रमार्गास्त्रयोदशाः ॥
प्रयोदशेति मंत्रस्य ज्ञात्वा द्वाराणि पार्थिवः। संवृत्य मंत्रयन् विद्वान् कर्मणां फलमश्नुते॥ १६ यथा ध्रुवदेव्या कृतो रामगुप्तारीरस्य ।
18 चिन्तयेत। 2 SIG तदुद्देशः। 3 SIG निस्त्रा। 4 SIG शारिकाभिः। 5 SG मत्रो भिमः। 6 sa 'अपि नास्ति । 7 SIG 'इति' नास्ति। 8 SIG 'हि' नास्ति । 9 SIG प्रलापकामा । 10 SIG 'इति प्रतीतं' नास्ति । 11 savl भेदोऽन्ययोग; svld भेदोऽयोग। 12 SIG भवन्ति । तेषामप्यन्ये; सैषा'; avl भवन्ति । सैषा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org