________________
सटिप्पनकं कौटलीयमर्थशास्त्रम्
योगक्षेमावहाः " । तेषां किल्बिषमदण्डकरा हरन्ति । अयोगक्षेमावहाश्च प्रा ( प्र ? ) जानाम् । तस्मादुछषड्भगमारण्यका अपि निर्वपन्ति 'तस्यैतद्भागधेयं योऽस्मान् गोपायतीति' । इन्द्रर्यमस्थानमेतत् राजानः प्रत्यक्षहेडप्रसादाः । तानवमी [२० प्र.] न्यमानान् देवोऽपि दण्डः स्पृशति । तस्माद्राजानो नावमन्तव्या इत्येवं' क्षुद्रकां प्रतिषेधयेत् । किंवदन्तीं च विद्युः ।
ये" चास्य धान्यपशुहिरण्यान्याजीवन्ति तैरुपकुर्वन्ति व्यसनेऽभ्युदये" वा कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति" अमित्रमाटविकं वा प्रतिषेधयन्ति । तेषां " मुण्डजटिल व्यञ्जनास्तुष्टातुष्टत्वं विद्युः ।
तुष्टान् भूयोऽर्थमानाभ्यां पूजयेत् । अतुष्टांस्तुष्टितोस्त्या [२० द्वि.] गेन प्रसादयेत् । परस्पराद्वा भेदयेदेतान सामन्तादविकतत्कुलीना परुद्धेभ्यश्च । "
१ पुरुषार्थलाभपालन संपादका भवन्ति ।
.२ प्रजानां व्यवस्थां राजकृतामाह । राज्ञां पापमदत्तदण्डकराः प्रजा हरन्ति । प्रजानां च पापं अयोगक्षेमावहाः राजानो हरन्तीति संबंधः ।
३ वानप्रस्थाः ।
४ राजोद्देशेन भूमौ यच्छन्ति
५ पारत्रिक दोषं दर्शयित्वैहिकमपि दर्शयन्नाह । उपलक्षणपरं चैतत्सकललोकपालस्थानं राजानः । तथोक्तम्- अग्निवायुय मार्काणामिंद्रस्य वरुणस्य च । चंद्रवियोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥
यस्मादेषां नरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येव सर्वभूतानि तेजसा ॥ इति ।
६ चित्रवधादिराबाधः । हेड विबाधायामिति पाठात् ।
७ दैवस्यायं देवः । व्याधिमरकदुर्भिक्षादिः ।
८ कृत्यभावोपगमान्निवारयेत् ।
९ राशि अनुराग विरागविषयाम् ।
१० वैषयिकमहत्तरमामकूटश्रेष्यादयः ।
११ धान्यादिभिः ।
१२ पुत्रजन्मादौ ।
१३ सामादिभिः परविषययानात् ।
१४ विलोपार्थं स्वविषयं प्रविशन्तं दंडेन ।
२५
१५ वैषयिकादीनां तुष्टातुष्टत्वं विदित्वा राज्ञो निवेदयेयुरिति भावः । १६ वैषयिकादीन् ।
१७ अन्य संहतानुद्दिश्याह । संसक्तांताः सामंता आटविका ये प्रचंडास्तत्कुलीना राजकुलोस्पना अपरुद्धाः परिवर्जितपुत्रादयस्तेभ्यश्च भेदयेदबलाः पश्चात्सामादिभिस्तुष्टा भवंति ।
1 SJC क्षेमवहाः । 2 avl किल्बिषमदण्डकरा अयोग | 3 savla योग; svl अयोग । 4 sJG क्षेमवहा' | 5 SJC प्रजानाम् । 6 sJc निवपति; avl निर्वपन्ति । 7 svl इन्द्रिय । 8 sJa° मन्यमानान्; avl मानानां देवोऽपि दण्डं स्पृशति । 9 SJG ' एवं ' नास्ति । 10 SJG व्यावर्तयन्ति । 11 sa तुष्टान् भूयः पूजयेत्; svl अर्थमानाभ्यां पूजयेत्; तुष्टानर्थमानाभ्यां पूजयेत् । 12 SJG साम्ना च प्रसादयेत्; avl प्रतिसाधयेत् । 13 sa एनान् । 14 sJG अवरुद्धे । सटि० कौट० अर्थ • 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org