SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् २१ • ये जनपदे शूरास्त्यक्तात्मानो हस्तिनं व्यालं वा [१७ द्वि.] पुरुष. मन्यादिकं वा' द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः। . ये बन्धुषु निःस्नेहाः क्रूरा अलसाश्चै ते रसदाः । परित्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यधिगच्छेत् ।। एतया मुंण्डा वृषल्यो व्याख्याताः। इति सञ्चाराः । तान् राजा स्वविषये मत्रिपुरोहितसेनाधिपतियुवराजदौवारिकान्तशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्ट्रनायकपौरव्यावहारिककार्मान्तिकमश्रिपर्षदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशात् भक्तितसामर्थ्ययोगाच्चापसर्पयेत् । १निर्भयाः। २......मगणितजीविताः। ३ यद्युयोगिनो भवंति तदा रसदत्वं नांगीकुर्वन्तीति । ४ परिवाजकलिंगधारिणी सर्वत्र परिवजतीति । ५ वृत्तिकामस्वाद्राजकार्यकारिणी । ६ स्वतंत्रा। . ७ जितसभा। ८ पूज्यवादतःपुरे राजानुमत्या कृतसत्कारा । ९ ऋद्धिमदमात्यगृहाणि । १० चारसंचारार्थम् । ११ महंतबुद्धभिक्षुक्यः। १२ वेश्यामातरो देवतालिंगधारिण्यो न्याख्याता इति। वृत्तिकामाऽन्तःपुरे कृतसस्कारा __ महामात्यकुलानि गच्छेदिति योज्यम् । १३ इत्येवंप्रकाराः सध्यादयः कुरुजादयश्च संचाराः । संचरंनि संचारयति चामिति । १४ अंतःपुरे नियुक्तः । १५ * १६ समाहर्ता कोशसम ......... । १७ गृहामात्यः । १८ प्रदेष्टा कंटकशोधनाधिकृतः। १९ * २० पुरव्यवहारे नियुक्तः । २. ये केचन खनिद्रव्यहस्तिवनादीनां कर्मान्ताः तेषु नियुक्तः । २२ श्रद्धेयो यस्य यो देशः यस्य यो वेषः इत्याद्यपदेशात् । २३ * २४ गूढपुरुषप्रणिधानं चामात्यादीषु वृत्तांतपरिज्ञानार्थे ......... च निश्चित्य शस्त्ररसप्र योगार्थम् । 1 JG 'पुरुषमम्यादिकं वा' नास्ति। 2 SIG °श्चालसा। 3 SIG सेनापति। 4 J कान्तिक। 5 JG परिषद् । GSJG °देशान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy