SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् तत्र धर्मोपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु* कर्मसु स्थापयेत् । अर्थोपधाशुद्धान् समाहर्तृसन्निधातृनिचयकर्मसु । कामोपधाशुद्धान् बाह्याभ्यंतरविहाररक्षासु । भयोपधाशुद्धानासन्नकार्येषु राज्ञः। सर्वोपधाशुद्धान मन्त्रिणः कुर्यात् । सर्वत्राशुचीन खनिद्रव्यहस्तिवनकर्मान्तेषूपैयो [ १४द्वि.]जयेत् । त्रिवर्गभयसंशुद्धानमात्यान् स्वेषु कर्मसु । अधिकुर्याद्यथाशौचमित्याचार्या व्यवस्थिताः ॥ न त्वेव कुर्यादात्मानं देवीं वा 'लक्ष्यमीश्वरः। शौचहेतोरमात्यानामेतत्कौटल्यदर्शनम् ॥ न दूषणमर्दुष्टस्य विषेणेवाम्भसश्चरेत् । कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥ कृता च कलुषा बुद्धिरुपैधाभिश्चतुर्विधा । नागत्वाऽन्तर्निवर्तेत स्थिता सत्त्ववतां धृतौ ॥ तस्माद्वाह्यमधिष्ठानं कृत्वा कार्ये चतुर्विधे । शोचाशौचममात्यानां राजा मार्गेत* सत्रिभिः॥ इति विनयाधिकारि [१५ प्र.] के दशमोऽध्यायः ॥ छ ॥ उपधाभिश्शौचाशौच ज्ञानममात्यानाम्॥ छ॥ ३ उद्यानादि । ४ अंतःपुरादि। ५ ...... पालनेषु । ६ आसमेषु च कार्येषु निर्भयत्वात् । जनपदोत्पनात्...............। . * १० आचार्यमतमुपसंहरबाह। ११ न वयमिति वाक्यशेषः । १२ अमात्यहृदयस्य । १३ कुलिकवेलोपयुक्तात् । १४ * १५ कौटल्यः स्वमतमाह । १६ राजस्थाने दूष्यामात्यं लक्ष्यं कृत्वा राजमहिषीस्थाने दूष्यपरनी च दूष्यार्थादिकं चाधिष्ठानम् । १७ त्रिवर्गभयभयशुद्धिपरीक्षालक्षणे । I sJG 'कर्मसु' नास्ति । 25 लक्ष्मी; JG लक्षमी। 3G नागत्वान्तं । 4 G चायें। सटि. कौट. अर्थ.3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy