SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् [अरिषड्वर्गत्यागः।] विद्याविनय ९ प्र.]हेतुरिंद्रियजयः कामक्रोधलोभमानमदहर्षत्यागाकार्यः। कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसेगन्धेष्वनिप्रतिपत्तिरिंद्रियजयः । शास्त्रानुष्ठानं वा । कृत्स्नं हि शास्त्रमिदमिंद्रियजयः। । तद्विरुद्धवृत्तिरवस्थे(श्ये)द्रियश्चातुरंतोऽपि राजा सद्यो विनश्यति । यथा दाण्डक्यो' नाम भोजः कामात् ब्राह्मणकन्यकामभिमन्यमानः सबन्धुराष्ट्रो विननाश । करालश्च वैदेहः । कोपाजनमेजयो ब्राह्मणेषु विक्रांतः। तालजश्च भृगुषु । लोभादैलँश्चातुर्वर्ण्यमत्याहारी ९ द्वि.]यमाणः 'सौवीरश्चाजबिंदुः। मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यादंशं च । " मदाद्दम्भोद्भवो भूतावमानी हैहयश्चार्जुनः। हर्षाद्वातापिरगस्त्यमत्यासादयन् वृष्णिसंघश्च द्वैपायनमिति । एते चान्ये च बहवः शत्रुषडर्गमाश्रिताः। सबंधुराष्ट्रा राजानो विनेशुरजितेंद्रियाः॥ . शत्रुषवर्गमुत्सृज्य जामदग्यो जितेंद्रियः। अम्बरीषश्च नाभागो' बुभु[ १० प्र.]जाते चिरं महीम् ॥ इति विनयाधिकारिके षष्ठोऽध्यायः ॥ छ ॥ इंद्रियजयेऽरिषड्वर्गत्यागः ॥ १ इदंति प्राप्नुवंति प्रभुत्वेन स्वविषयान् । २ चतुःसमुद्रांताव ... शापि। ३ दंडकविषयास्तेषां मुख्याः । बृहदश्वाभिधानः । * भोजान्वयः। ५ कामादिति शेषः। ६ कोपात् । ७ इलायाः इलस्य वाऽपत्यं ऐलः पुरूरवाः। ८ सर्वस्वमत्याजिहीर्षुः। ९ सुवीराणां राजा। १० अप्रयच्छन्निति शेषः। ११ नाभागपुत्रः। ____1 svl स्पर्शरस। 2 SJC शास्त्रार्थानु। 3 SICE कन्यामभिः । 4 svl बिन्दुस्सीवीरश्राजमा। 5 SJ मदाड'; G मदाद् ड°। 6 SJ °अगस्त्याम'। 7 5 इन्द्रियजयेऽरिषदर्गत्यागः षष्ठोऽध्यायः; J प्रथमेऽधिकरणे इन्द्रियः; G प्रथमाधिकरणे षष्ठोऽध्यायः इन्द्रिय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy