________________
सटिप्पनकं कौटलीयमर्थशास्त्रम् प्रतिपादनी च । तस्यामायत्ता लोकयात्रा। तस्माल्लोकयात्राविन्नित्यमुद्यतदण्ड: स्यात्।न 'ह्येवंविधं वशोपन [७ द्वि.] यनमस्ति भूतानां यथा दण्ड इत्याचार्याः॥ नेति कौटल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजनीयो भवति । मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यते । सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति । दुष्प्रणीतस्तु कामक्रोधाभ्यामवज्ञानाद् वानप्रस्थपरिव्राजकानपि कोपयति किमंग पुनर्गृहस्थान् । अप्रणीतस्तु मात्स्यन्यायमुद्भावयति । बलीयानबलं हि ग्रसते दण्डधराभावे । स च तेन गुप्तः प्रभवतीति ॥
चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन'* पालितः। स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ॥ इति विनयाधिकारिके चतुर्थोऽध्यायः॥ विद्यासमुद्देशे वातास्थापना दण्डनीतिस्थापना च [८ प्र.] ॥ छ ।
॥ विद्यासमुद्देशः समाप्तः ॥
[वृद्धसंयोगः] तस्माद्दण्डमूलास्तिस्रो विद्याः। विनय [मूलो दण्डः प्राणभृतां] योग। क्षेमावहः । कृतकः स्वाभाविकच विनयः । क्रिया हि द्रव्यं विनयति नाद्रव्यम् । शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति नेतरम् ।
विद्यानां तु यास्वमाचार्यप्रामाण्याद्विनयो" नियमश्च । १ तमात् कस्मादित्याह न वंविधमिति । २ लोकः। ३ वृद्धि याति ।
५ पूर्वकृतशुभकर्मणा। ६ विद्यावृद्धसंयोगलक्षणा। ७ द्रव्यं सहजविनयसंयुक्तम् । ८ द्रव्यं विनयतीत्यत्रैव नागव्यं विनयतीति सिद्धे पुनर्वचनं द्रव्याद्रध्यपरिग्रहार्थम् । ९ विद्याचतुष्टयम्। १० यो यस्या विद्याया उचितो.........नियमश्च । यथास्वम् । ११ प्रत्युस्थानविनयादिः । १२ ब्रह्मचर्यैकभक्तादिः ।
1 SIG यात्रार्थीनि। 2 SIG भवति' नास्ति । 3 SIG पूज्यः। 4 SIG 'तु' नास्ति । 5 8JG °मज्ञाना। 6 SIG तो हि। 7 SIG 'सच' नास्ति । 8 G वेश्मसु । 9 SI इति विनयाधिकारिके प्रथमेऽधिकरणे विद्यासमुद्देशे वार्तास्थापना दण्डनीतिस्थापना च चतुर्थोऽध्यायः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org