SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २२ ...... नीतिनिर्णीतिनानी अरनिरिंद्रकीलक इति ॥ [२.३.३२] चतुर्विंशत्यंगुलो लौहः कपाटयुगसंधिमाक्रम्याधोदेहलीविवरं प्रविशति कीलस्तस्मिन् इंद्रजिता किलेंद्रो बद्ध इंद्रकील इत्युच्यते । ऊर्द्धभागेऽपीष्यते, मस्तककीलाख्यः ॥छ॥ पंचहस्तमाणिद्वारमिति ॥ [२.३.३३] कपाटयोगयोरेकैकवामकपाटे पंचहस्तोत्सेधं आणिद्वारं क्षुद्रकद्वारमित्यर्थः । ."तेऽपि द्वारे प्रवेशनिर्गमार्थ अत्रापि कपाटार्गलादिकं चार्थप्राप्तं कपाटानां च लोहकंटकचितत्वमर्थापन्नम् , दुर्गविधानप्रस्तावात् ॥ छ । चत्वारो हस्तिपरिघा इति ॥ [२.३.३४] कपाटरक्षार्थ......"हस्तिनामसाध्याश्चत्वारः परिघाः हस्तिनिवारणार्थ हस्तिपरिघाः ॥ छ॥ निवेशार्द्ध हस्तिनखैमिति ॥ [२.३.३५] निवेशः प्रतोल्याः पंचदंडादिस्तदई सार्द्धदंडद्वयादि हस्तिनखं देहलीतो......” [16B] कारेण क्रमान्निम्नं शिलामयम् ॥ छ । मुखसमः संक्रमः संहार्यो' भूमिमयो वा निरुदक इति ॥ [२.३.३६] मुखं द्वारशुषिरं तत्समः परिखासु संक्रमो मार्ग इत्यर्थः । अधिकस्य प्रयोजनाभावात् ।......"रुषा मुखे मांति तावतामेव परिखासु संक्रमणं युक्तम् । स च संहार्यः काष्ठयंत्रादिना सोदके खातप्रदेशे, भूमिमयो वा निरुदके। तावती भूमिमपहाय खातव्यमित्यर्थः । प्रतोली........."शेषमाह ।* प्राकारसमं मुखमवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेदिति ॥ [२.३.३७] मुखमादितलादधःशुषिरं तच्च द्वादशहस्ते प्राकारे पंचदशहस्तं 'पंचदशहस्तस्तलोत्सेध' इति वचनात् । अत्र गोपुरे प्राकारसममेव मुखं कर्त्तव्यम् । द्वादशहस्ते प्राकारे द्वादशहस्त एव मेंढकः । दशहस्ताः स्तंभाः हस्तद्वयं च स्तंभो परिकरस्य । एवं सपरिकरः स्तंभोऽपि द्वादशहस्त...... एवं प्रतोलीतस्त्रिहस्तान्न्यूनोच्छ्यमित्येको विशेषः । त्रिभा25 गगोधामुखमिति त्रिभागं क्षेत्रस्य पंचदंडा...मग्रतोधि......मुखाकारो मेंढकप्राकार एव .........यो योधानां युद्धसौका(कर्यार्थ द्वाररक्षातिशयार्थ च । प्रायो विवीताभिमुखं गवामेतत् द्वारमिति गोपुरं......टकयोः शृंगाटकाकारेण वि...... तयोर्गोधामुखाकारं द्वारं भवति तत् कारयेत् । शेषं प्रतोलीसमानम् । SJG क dropped. २ SJG °मणि'; Svl. °माणि' । ३ SJ शार्ध। ४ SJG नखः। SJG read this Sutra with the following मुखसमः etc. ५ SJG संक्रमोऽसंहार्यो वा भूमि etc. ६J suggests to read त्रिभागमधोमुर्ख for more and translate “Gopura is to be in three parts and with its entrance below." Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy