________________
नीतिनिर्णीतिनानी चतुरो दंडानवकृष्याभ्यंतरपरिखायाश्चतुर्दडप्रमाणमंतर मुक्त्वेत्यर्थः । पट्एंडोच्छ्रितं चतुर्विंशतिहस्तोत्सेधमवरुद्धं पाषाणादिभिर्बद्धोभयपाच पांशुविसरणनिषेधार्थम् । द्विगुणविष्कंभमुच्छ्रयाद् द्विगुण विस्तारं द्वादशदंडविस्तारमित्यर्थः । खातादिति खातोत्थपांशुभिर्वप्रं प्राकाराधिष्ठानं सेत्वाकारत्वाच्च वप्रशब्दप्रयोगः । तं कारयेत् ॥ छ ।
अर्द्धचयं मंचकपृष्ठं कुंभकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि गुल्मविषवल्लीप्रतानवंतमिति ॥ [२.३.१०]
ऊर्द्धचयमंतर मुक्त्वा चयाः शिलादीनां कर्तव्या दाार्थम् । ततश्च चल्मीकशिखराकारो भवतीति भावः । मंचकपृष्ठं मध्ये किञ्चिन्निम्नं प्राकार"दाार्थम् । कुंभकुक्षिकमिति । आयतशिलास्तंभवत्त्वात् कुंभसमानकुक्षिकश्चीयते। दुरारोहो भवत्विति । हस्तिभिर्गो"मिश्च क्षुण्णं हस्तिभिर्महाकायत्वात् गोभिस्तीक्ष्णखुरत्वात् घनत्वापादनार्थम् । कंटकिनो बदर्यादयः । गुल्मा भल्लातक्यादीनां(नि), विषाणि हलिनीकरवीरादीनि, वह्यो हस्तिवारुणीकरमर्दाद्यास्तत्प्रतानवंतं मूल इत्यर्थः ॥ छ॥
पां"[11B]शुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत् ॥ [२.३.११]
पांशुशेषेण च प्रपूरणावशिष्टपांशुभिर्वास्तुच्छिद्रं नगरवास्तुनिम्नं राजवास्तुनि15 शांतभूमिनिम्नं वा पूरयेत् । समत्वापादनार्थम् ॥ छ ।
वास्योपरि प्राकारं विष्कंभद्विगुणोत्सेधमैष्टकं द्वादशहस्तादूर्द्धमोज
युग्मं वा आचतुर्विंशतिहस्तादिति कारयेदिति ॥ [२.३.१२] - उक्तलक्षणस्य वप्रस्योपरि प्राकारं प्रकृष्टाकारं विष्कंभद्विगुणोत्सेधमिति
विस्तारद्विगुणोच्छ्रायम् । अनुक्तोऽपि विष्कंभस्त्रयोदशविधः प्राकाराणां वक्ष्यमाणादुत्सेधात " प्रत्येकमर्द्धप्रमाणः कार्य इति व्याप्त्यर्थं वचनम् । ऐष्टकं इष्टकचितम् । द्विचत्वारिंशदंगुलहस्तेन द्वादशहस्तादाद्यात् प्राकारादूर्द्धमुपरिष्टादोजं विषमहस्तसंख्यं युग्मं समहस्तसंख्यम् । तद्यथा । त्रयोदशहस्त ओजश्चतुर्दशहस्तो युग्मः, पंचदशहस्त ओज इत्येवं योज्यमाचतुर्विशतिहस्तात् द्वादशहस्तादूनः चतुर्विंशतिहस्तादधिको न कार्य इति नियमः। ओज
युग्मग्रहणं च ह......न्यूनेन वितस्त्यंगुलादिभिरुत्सेधवृद्धिर्न कल्पनीयेति ज्ञापनार्थम् । ४ एवं च त्रयोदशैव प्राकारा भवंति । विष्कंभप्रमाणमपि षट्हस्तादित्यर्थादापद्यते । एवं ल......"कारयेत् ॥ छ । रथचर्यासंचारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताममिति ॥
[२.३.१३] रथचर्यासंचारस्य प्रमाणं पंचारनिप्रमाणा वक्ष्यति । पंचारत्नयो रथपथ 30 ई......"[12A ]मुरजक-कपिशीर्षकावरुद्धं प्रदेशं विहाय प्राकारमस्तके पंचारनिप्रमाणोऽ
SJG °क° dropped | RSJ विशेषेण। ३ SJG राजभवनं dropped. SJG ओजं यु। ५ SJG आ seperated from चतु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org