________________
नीतिनिर्णीतिनानी [सम्भूय सेतुबन्धादप्रकामतः कर्मकरबलीवर्दाः]"कर्म कुर्युः । व्यय. कर्मणि च भागी स्यात् । न चांशं लभेतेति ॥ [२.१.२१]
संभूय सह सेतुबंधं करिष्याम इति समयं कृत्वा व्ययकर्मणि......कर्मकरबलीवः ......"मणि च भागी हिरण्यभागदायी स्यान्न च फलस्यांशं लभते ॥छ।।
मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेदिति ॥[२.१.२२]
मत्स्यानां प्लवानां...... हरितानां नालिकादीनां पण्यानां श्रृंगाटककसेरुकादीनां सेतुषु जनपदबद्धेष्वपि राजा स्वाम्यं गच्छेत् । निविष्टस्य जनपदस्य विनयार्थमाह ।*
दासाहितकबंधू"नशृण्वतो राजा} विनयं ग्राहयेदिति ॥ [२.१.२३]
दासा गृहजातादयः। आहितका अन्यैराधी न कृताः।बांधवाः पुत्रभ्रात्रादयः। खामिवचनं गुरुवचनं वा विनयादशृण्वंतो राजा विनयं" ग्राहयेत् साम्ना दंडेन वा ॥छ।
बालवृद्धव्यसन्यनाथांश्च बिभृयात् । स्त्रियमप्रजातां प्रजातायाचे पुत्रान् ॥ [२.१.२४]
राजेति संबंधः। बालादीनामंतपतितोऽप्यनाथशब्दो विशेषणमन्यथातिप्रसंगं स्यात् । 15 व्यसनिनः पंग्वादयः । स्त्रियमप्रजातां गर्भिणीमनाथामित्यक्ष्यं । प्रजातायाश्च पुत्रान् न तेषां मातृसद्भावमात्रेण सनाथतेति भावः ।। छ । बालद्रव्यं" ग्रामवृद्धा वर्द्धयेयुराव्यवहारप्रापणात् देवद्रव्यं चेति ॥
[२.१.२५] अनाथबालद्रव्यं ग्रामवृद्धा ग्रामकूटादयो वर्द्धयेयुः। कृष्यादिभिराव्यवहार20 प्रापणात् । द्वादशवर्षा स्त्री षोडशवर्षः पुमान् प्राप्तव्यवहार इति । देवद्रव्यं च ग्रामवृद्धा वर्द्धयेयुरिति समुच्चयः । वृद्धाश्चात्र धर्मतोऽर्थतश्च द्रष्टव्याः । श्रोत्रियभोग्यत्वापायनाद्धर्मतो वृद्धिं यास्यति । उक्तं हि । अश्रोत्रियभोग्यं देवद्रव्यमपरुद्धकुमारहार्यमितिसनाथ.......[4B]बालादीनामभरणे दंडमाह ।*
अपत्यदारं मातापितरौ भ्रातृनप्राप्तव्यवहारान् भगिनीः कन्या विधवा2 श्वाबिभ्रतः शक्तिमतो द्वादशपणो दंडः। अन्यत्र पतितेभ्योऽन्यत्र
मातुः॥" [२.१.२६] [अ]पत्यदारं मातापितरौ भ्रातृनप्राप्तव्यवहारान् भगिनीः कन्याविधवाश्चाबिभ्रतः शक्तिमतो भरणशक्तिरस्तिचेद्गृहस्थस्य द्वादशपणो दंडः। पण इति मुख्यमाहतद्रव्यं [1] अस्याप"वादः। अन्यत्र पतितेभ्यः महापातकयुक्तेभ्योऽन्य30 त्राभरणे दंडः । अस्याप्यपवादः । अन्यत्र मातुरिति पतिताऽभिशस्ता वा न माता त्यागमहतीति उक्तं च मनुना।
J°त् । २ Sv.1. हत। ३ SJG व्याधित after वृद्ध। ४Jv.1. व्यांश्च । ५ वर्ज [] | G वर्ज। ६G Sv.1. °दारान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org