________________
सटिप्पनकं कौटलीयमर्थशास्त्रम् __ • उत्तरः पूर्वो वा श्मशानभागो वोत्तमानाम् । द[४८-द्वि. ]क्षिणेन इमशानं वर्णावराणाम् । तस्यातिक्रमे पूर्वः साहसदंडः। पापं(पं)ड-चण्डालानां श्मशानांते निवासः। .
कर्मान्तक्षेत्रवशेन कुटुंबिनां सीमानं स्थापयेत् । तेषु पुष्पफलवाटधान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः । दशकुलीवाट कूपीस्थानम् ।
सर्वस्नेहधान्यक्षारलवणगंधभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचङ्गिारस्नायुविषविषाणवेणुवल्क[ल]सारदारुपहरणावरणाश्मनिचयाननेकवपभोगसहान् कारयेत् । नवेन वा नवं शोधयेत् ।।
हस्त्यश्वरथपदातमनेकमुख्यं च स्था[४९ प्र.]पयेत् । अनेकमुख्यं हि " परस्परभयात्परोपजातं(पं) नोपैति" । एतेनांतपालदुर्गसंस्कारा व्याख्याताः।
न च बाहिरिकां कुर्यात्पुरराष्ट्रोपघातिकान् । क्षिपेजनपदे चैतां सर्वान् वा दापयेत् करान् ॥ ॥ इति अध्यक्षप्रचारे द्वितीयेऽधिकरणे चतुर्थोऽध्यायः ॥ दुर्गनिवेशः ॥
[ सन्निधातृचेयकर्म।] 15 सन्निधाता कोशगृहं कोष्ठागारं "पण्यगृहं कुप्यगृहमायुधागारं बन्धनागारं च कारयेत् ।
चतुरस्रामैनुदकोपस्नेहां वापी खानयित्वा पृथुशिलाभिरुभयतः पाचमूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलमनेकविधानं कुट्टिम[ ४९ द्वि.]देशस्थानतलमेकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत् । " तस्योपर्युभयतोनिषेधं सप्रेग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत् प्र(प्रा)सादं च।
जनपदान्ते ध्रुवनिधिमापदर्थमभित्यक्तैः कारयेत् ।
पक्वेष्टकास्तम्भचतुःशालमेकद्वारमनेकस्थानतलं विवृतस्तंभापसारमुभयतः पण्यगृहम् । कोष्ठागारं च दीर्घबहुशालम् । कक्षावृतकुड्यमन्तःकुप्यगृहम् ।
1 SIG श्मशानवाटः । 2 SJ दक्षिणेन वर्णोत्तराणाम् ; a वोत्तमानाम् । 3 SIG °ते वासः । 4_SIG °वशेन वा कुटुम्बिनां। 5 sJG °वाटषण्डकेदारान् धान्य । 6 SJG कूपस्थानं । 7 sJG 'गंध' नास्ति । 8 svlG नवेनानवं। 9 SIG °रथपादातम् । 10 SIG मुख्यमवस्थापयेत् । 11 sJG नोपैतीति । 12 SIG °घातकान् । 13 SJ दुर्गनिवेशः चतुर्थोऽध्यायः आदितः पश्चविंशः; 4 चतुर्थों दुर्ग भादित। 14 SIG पण्यगृह कोष्ठागारं । 15 SIG चतुरश्रां वापीमनुदको । 16 SI 'सोपानं देवताविधानं (G पिधानं) भूमि । 17 ss सवप्रग्रीव। 18 SIG प्रासादं वा । 19 svl °भियुक्तः । 20 SIG पुरुषैः कारयेत् । 21 SIG 'स्तम्भं चतुः। 22 SIG बहुलबार्सि। 23 SIG कराया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org