________________
Jain Education International
श्री चौलुक्य ! स दक्षिणस्तव करः पूर्वं समासूत्रित - प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोऽप्येष तथैव पातकसखः शुद्धि कथं प्राप्नुयात् न स्पृश्येत करेण चेत् यतिपतेः श्रीहेमसूरिप्रभोः ॥
श्रीसूरीश्वर ! हेमचन्द्र ! भवतः प्रक्षाल्य पादौ स्वयम्, स्वर्धेनोः पयसा विलिप्य च मुहुः श्रीखण्डसान्द्रद्रवैः । अर्चामोऽम्बुदमौक्तिकैर्यदि तदाऽप्यानृण्यमस्तु क्व नो; विश्वैश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतू (तुः ) ह्यम् ॥
श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥
- कुमारपालप्रबोधः
For Private & Personal Use Only
www.jainelibrary.org