________________
७८२
श्री प्रश्नव्याकरण सूत्र
संस्कृतच्छाया यः स वीरवरवचनविरतिप्रविस्तरबहुविधप्रकारः, सम्यक्त्वविशुद्धमूलो, धृतिकंदो, विनयवेदिकस्त्र लोक्य-निर्गतविपुलयशोनिबिड़पीनप्रवरसुजातस्कन्धः, पञ्चमहाव्रतविशालशालो, भावनात्वगन्तर्-ध्यानशुभयोगज्ञानपल्लववरांकुरधरो, बहुगुण सुमसमृद्धः, शोलसुगन्धोऽनाश्रवफलः पुनश्च मोक्षवरबीजसारो, मन्दरगिरिशिखरचूलिकेवा स्य मोक्षवरमुक्तिमार्गस्य शिखरभूतः संवरवरपादपश्चरमं संवरद्वारम् ।।
यत्र न कल्पते ग्रामाकर-नगर-खेट-कर्बट-मडम्ब-द्रोणमुख-पत्तनाश्रमगतं च किंचिदल्पं वा बहु वा अणु वा स्थूलं वा त्रसस्थावरकायद्रव्यजातं मनसाऽपि परिगृहीतु, न हिरण्यसुवर्णक्षेत्रवास्तु, न दासोदासभूतकप्रेष्यहयगजगवेलकं च, न यानयुग्यशयनानि, न छत्रक, न कुडिका, न उपानहौ, न पेहण (मयर पिच्छ) व्यजन (वोजन) तालवन्तकानि, न चापि अयस्त्रपुकताम्र-सीसक-कांस्य-रजत-जातरूप-मणि-मुक्ताधार पुटक शंखदन्तमणि शृंगशैलकाचवरचेलचर्मपात्राणि महाहाणि परस्याऽध्युपपातलोभजननानि परिकर्षयितु (परिवर्द्धयितु) गुणवतो, न चापि पुष्पफलकन्दमूलादिकानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगः परिगृहीतु औषधभैषज्यभोजनार्थाय संयतेन । कि कारणम् ? अपरिमितज्ञानदर्शनधरः शीलगुणविनयतपःसंयमनायकैस्तीर्थङ्करैः सर्वजगज्जीववत्सलस्त्रिलोकमहितैजिनवरेन्द्र रेषा योनिः जङ्गमानां दृष्टा, न कल्पते योनिसमुच्छेद इति तेन वर्जयन्ति श्रमणसिंहाः, यदपि च ओदन-कुल्माष-गंज-तर्पण-मथु-भ्रष्ट (धान)-पललसूप - शष्कुलीवेष्टिमवरसरकचूर्णकोशपिंडशिखरिणीवर्तक - घनतोमन) मोदकक्षीरदधिसपिनवनीततैलगुडखण्डमत्स्यंडिकामधुमद्यमांसखाद्यव्यंजनविध्यादिकं प्रणीतं उपाश्रये परगहे वाऽरण्ये न कल्पते तदपि सन्निधीकर्तु सुविहितानाम्, यदपि चोद्दिष्टस्थापितरचितपर्यवजातं प्रकोर्णप्रादुष्करणापमित्यकं मिश्रकजातं क्रोतकृतप्राभृतं दानार्थपुण्यप्रकृतं, श्रमणवनोपकार्थतया वा कृतं पश्चात्कर्म पुरःकर्म नैत्यिकं म्रक्षितमतिरिक्त मौखरं चैव स्वयंग्राहं आहृतं मृत्तिकोपलिप्तमाच्छेद्य चैवानिसृष्टं यत्तव तिथिषु यज्ञषु उत्सवेषु चान्तर्बहिर्वा भवेत् श्नमणार्थ स्थापितं हिंसासावद्यसम्प्रयुक्त न कल्पते तदपि च परिगृहीतुम् ।