________________
७३४
श्री प्रश्नव्याकरण सूत्र
आमरणंतं च एसो जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावो असंकिलिट्ठो सुद्धो सन्वजिणमणुन्नातो । एवं चउत्थं संवरदारं फोसियं पालितं सोहित तीरितं किट्टितं आणाए अणुपालितं भवति । एवं नाय मुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसित पसत्थं । (सू० २७) चउत्थं संवरदारं समत्तं तिबेमि ॥ ४ ॥
संस्कृतच्छाया तस्येमाः पच भावनाश्चतुर्थकस्य भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थाय (रक्षणा थताय),(१) प्रथमं शयनासनगृहद्वारांगणाकाशगवाक्षशालाभिलोकनपश्चाद्वास्तुकप्रसाधनकस्नातिकावकाशाः, अवकाशा ये च वेश्यानामासते च यत्र स्त्रियोऽभीक्ष्णं मोहदोषरतिरागवर्द्धनाः . कथयन्ति च कथा बहविधास्तेऽपि खलु वर्जनीयाः, स्त्रीसंसक्तसंक्लिष्टा अन्येऽपि चैवमादयोवकाशास्ते खलु वर्जनीया यत्र मनोविभ्रमो वा भंगो वा भ्रशना वाऽऽर्त रौद्रं च भवेद् ध्यानं तत्तद् वर्जयेदवद्य (वय-वज्र) भीरुरनायतनमन्तप्रान्तवासी। एवमसंसक्तवासवसतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मो जितेन्द्रियो ब्रह्मचर्यगुप्तः।। . (२) द्वितीयं नारीजनस्य मध्ये न कथनीया कथा विचित्रा विब्बोकविलाससम्प्रयुक्ता हासशृंगारलौकिककथा वा मोहजननी न आवाहविवाहवरकथा इव स्त्रीणां वा सुभगदुर्भगकथा चतुःषष्टिश्च महिलागुणा न वर्ण-देश-जाति - कुल - रूप - नाम - नेपथ्यपरिजनकथा स्त्रीणामन्याऽपि चैवमादिकाः कथाः शृगारकरुणाः तपःसंयम - ब्रह्मचर्यघातोपघातिका अनुचरता ब्रह्मचर्य न कथयितव्या, न श्रोतव्या, न चिन्तयितव्याः। एवं स्त्रोकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्माऽऽरतमनोविरतनामधर्मों जितेन्द्रियो ब्रह्मचर्यगुप्त । (३) तृतीयं नारीणां हसितभणितं चेष्टितविप्रेक्षितगतिविलासक्रीडितं विब्बोकितनाट्यगीतवादित शरीरसंस्थानवर्ण करचरणनयनलावण्यरूपयौवनपयोधराधरवस्त्रालंकार भूषणानि च गुह्यावकाशिकानि अन्यानि चैवमादिकानि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरताब्रह्मचर्य