________________
आठवां अध्ययन : अचौर्य-संवर महेच्छमनोवचनकलुषादानसुनिगृहीतं, सुसंयमितमनोहस्तपादनिभृतं, निम्रन्थं, नैष्ठिकं, निरुक्त, निराश्रवं, निर्भयं, विमुक्त, उत्तमनरवृषभ-प्रवरबलवत्सुविहितजनसम्मतं, प्रवरसाधुधर्मचरणं ; यत्र च ग्रामाकरनगर-निगम-खेट कर्बट-मडम्ब-द्रोणमुख-संवाह-पत्तनाश्रमगतं च किंचिद् द्रव्यं मणिमुक्ताशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्नादि पतितं विस्मृतं विप्रणष्टं न कल्पते कस्यचित् कथयितु वा गृहीतु वाऽहिरण्यसुवणिकेन समलेष्टकांचनेन अपरिग्रहसंवृतेन लोके विहर्त्तव्यम् । यदपि च भवेद् द्रव्यजातं खलगतं क्षेत्रगतं अरण्यान्तरगतं वा किंचित् पुष्प-फल-त्वक्-प्रवाल-कन्द-मूल-तृणकाष्ठ-शर्करादि, अल्पं च बहु चाणु च स्थूलकं वा न कल्पतेऽवग्रहेऽदत्त गृहीतु यत्किञ्चित् ; अहन्यहनि अवग्रहमनुज्ञाप्य गृहीतव्यम् । वर्जयितव्यः सर्वकालमप्रीतगृहप्रवेशोऽप्रीतभक्तपानमप्रीतपीठ - फलक - शय्या - संस्तारकवस्त्र-पात्र-कंबल-दंडक-रजोहरण-निषद्या - चोलपट्ट- मुखपोतिका-पादपोंछनादि भाजनभांडोपध्युपकरणं, परपरिवादो, परस्य दोषः, परव्यपदेशेन यच्च गह्णाति परस्य नाशयति, यच्च सुकृतं दानस्य चान्तरायिकं दानविप्रणाशः, पैशुन्यं चैव मात्सरिकं च, योऽपि च पीठ- फलक- शय्या- संस्तारक- वस्त्रपात्र - कम्बल - नुखपोतिका - पादपोंछनादि भाजनभाण्डोपध्युकरणं असंविभागी, असंग्रहरुचिस्तपस्तेनश्च वास्तेनश्च रूपस्तेनश्चाचारे चैव भावस्तेनश्च शब्दकरः झंझाकरः कलहकरो वैरकरो विकथाकरोऽसमाधिकरः सदाऽप्रमाणभोजी सततमनुबद्धवैरश्च नित्यरोषी स तादृशो नाराधयति व्रतमिदम् । अथ कीदृशः पुनराधयति व्रतमिदम् ? यः स उपधिभक्तपानसंग्रहणदानकुशलः, अत्यन्तबालदुर्बलग्लानवृद्धक्षपके प्रवर्त्याचार्योपाध्याये शैक्ष सामिके तपस्विकुलगणसंघचैत्यार्थे च निजरार्थी वैयावृत्यमनिश्रितं बहुविधं दशविधं करोति, न चाप्रीतस्य गृहं प्रविशति, न चाप्रीतस्य गृह्णाति भक्तपानं, न चाप्रीतस्य सेवते पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणनिषद्याचोलपट्ट - मुखपोतिकापादप्रोञ्छनादि - भाजनभाण्डोपध्युपकरणम्, न च परिवादं परस्य जल्पति, । चापि दोषान् परस्य गृह्णाति. परव्यपदेशेनापि न किञ्चिद् गह्णाति, न च विपरिणमयति कंचिज्जनम्, न चापि नाशयति दत्तसुकृतम्, दत्त्वा च न भवति पश्चात्तापिकः, संविभागशीलः संग्रहोपग्रहकुशलः स तादृश आराधयति व्रतमिदम् ।