SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ६३८ श्री प्रश्नव्याकरण सूत्र वितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं ति बेमि । २।। (सू० २५)। संस्कृतच्छाया इमं च अलोक-पिशुन-परुष-कटुक-चपल-वचनपरिरक्षणार्थताय प्रवचनं भगवता सुकथितमात्महितं प्रेत्यभाविक मागमिष्यद्भद्र शुद्धं नैयायिकमकुटिलमनुत्तरं सर्वदुःखपापानां व्युपशमनम् । तस्येमाः पंचभावना द्वितीयस्य व्रतस्यालीकवचनस्य विरमणपरिरक्षणार्थाय (१) प्रथमं श्रुत्वा संवरार्थ परमार्थ सुष्ठ ज्ञात्वा न वेगितं, न त्वरितं, न चपलं, न कटुकं, न परुषं, न साहसं, न च परस्य पीड़ाकर, सावद्य, सत्य च हितं च मित च ग्राहकं च शद्ध संगतमकाहलं च समीक्षितं संयतेन काले च वक्तव्यमेवं अनवोचि(अनुचिन्त्य) समितियोगेन भावितो भवत्यन्तरात्मा संयतकरचरणनयनवदनः शूरः सत्यार्जवसम्पन्नः (२) द्वितीयं क्रोधो न सेवितव्यः, ऋद्धश्चाण्डिक्यितो मनुष्योऽलीकं भगेत, पिशुनं भणेत, परुष भणेत , अलीकं पिशुनं परुष भणेत ; कलहं कुर्यात , वैरं कुर्यात , विकथां कुर्यात, कलह वैरं विकथां कुर्यात् , सत्यं हन्यात , शोलं हन्यात , विनयं हन्यात , सत्य शीलं . विनयं हन्यात ; द्वष्यो भवेत, वस्तु भवेत , गम्योभवेत्, दुष्यो वस्तु गम्यो भवेत , एतद् अन्यं चैवमादिकं भणेत क्रोधाग्निसंप्रदीप्तः, तस्मात क्रोधो न सेवितव्यः, एवं क्षान्त्या भावितो भवत्यन्तरात्मा संयतकरचरणनयनवदनः शूरः सत्यार्जवसम्पन्नः । (३) त तीयं लोभो न सेवितव्यः,लुब्धो लोलो भणेदलीक क्षेत्रस्य वा वस्तुनो वा कृते १, लुब्धो लोलो भणेदलाक कीर्तेर् लोभस्य वा कृते २,लुब्धो लोलो भणेदलीकं ऋद्धर्वा सौख्यस्य वा कृते३, लुब्धो लोलो भणदलीक भक्तस्य वा पानस्य वा कृते ४, लुब्धो लोलो भणेदलीक पीठस्य वा फलकस्य वा कृते ५, लुब्धो लोलो भणदलीक शय्याया वा संस्तारकस्य वा कृते ६, लुब्धो लोलो भणदलीक वस्त्रस्य वा पात्रस्य वा कृते ७, लुब्धो लोलो भणदलोकं कम्बलस्य वा पादप्रोञ्छनस्य वा कृते ८, लुब्धो लोलो भणेदलीक शिष्यस्य वा शिष्याया वा कृते ६, लुब्धो लोलो भणेदलीकमन्येषु चैवमादिकेषु बहुषु कारणशतेषु, लुब्धो लोलो भणदलीक तस्मात लोभो न सेवितव्यः । एव मुक्त्या भावितो भवत्यन्तरात्मा संयतकरचरणनयनवदनः शूरः सत्यार्जवसम्पन्नः । (४) चतुर्थ न भेतव्यम् । भीतं खलु भयानि आयान्ति लघुकं, भीतोऽद्वितीयो मनुष्यो, भीतो भूतैह्यते,
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy