________________
चतुर्थ अध्ययन : अब्रह्मचर्य-आश्रव सद्दफरिसरसरूवगंधे अणुभवेत्ता तेवि उवणमंति मरणधम्म अवितित्ता कामारणं ।
संस्कृतच्छाया भूयो भूयो बलदेववासुदेवाश्च प्रवरपुरुषा, महाबलपराक्रमा, महाधनुर्विकर्षका महासत्त्वसागरा, दुर्धरा, धनुर्धरा, नरवृषभा रामकेशवा, सभ्रातरः सपरिषदो, वसुदेवसमुद्रविजयादिकदशार्हाणां प्रद्युम्नप्रतिव-शम्बअनिरुद्ध-निषधोल्मुकसारणगजसुनुखदुर्मुखादीनां यादवानां अध्युष्टानामपि (अर्धाधिकतिसृणामपि) कुमारकोटानां हृदयदयिताः, देव्या रोहिण्या देव्या देवक्याश्चानन्दहृदयभावनन्दनकराः,षोड़शराजवरसहस्रानुयातमार्गाः,षोडशदेवीसहस्रवरनयनहृदयदयिता, नानाणिकनकरत्नमौक्तिकप्रवालधनधान्यसंचद्धिसमृद्धकोशा, हयगजरथसहस्रस्वामिनो, ग्रामाकरनगरखेटकर्बटमडंबद्रोणमुखपत्तनाश्रमसंवाहसहस्रस्तिमितनिर्वृत्तप्रमुदितजनविविधसस्यनिष्पद्य'मानमेदिनीसरःसरितडागशैलकाननारामोद्यानमनोऽभिरामपरिमंडितस्य दक्षिणार्द्धवैताढ्य - (विजयार्द्ध)गिरिविभक्तस्य लवणजलधिपरिगतस्य षड्विधकालगुणक्रम(काम)युक्तस्य अद्धभरतस्य स्वामिका, धीरकीर्तिपुरुषाः, ओघबला, अतिबला, अनिहता, अपराजितशत्र मर्दनरिपुसहस्रमानमथनाः, सानुक्रोशा, अमत्सरिणोऽचपला अचंडा, मितमंजुलप्रलापा, हसितगम्भीरमधुरभणिता, अभ्युपगतवात्सल्याः, शरण्या लक्षणव्यंजनगुणोपपेता मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वांगसुन्दरांगाः, शशिसोमाकारकान्तप्रियदर्शना अमर्षणाः (अमसृणा), प्रचंड(प्रकांड) दंडप्रचार (प्रकार) गम्भीरदर्शनीयाः, तालध्वजोद्विद्धगरुडकेतवो, बलवद्गर्जद्दरितदपित(क)मौष्टिकचाणूरमूरका, रिष्टवृषभघातिनः केसरिमुखविस्फाटका दरित । दृप्त)नागदर्पमथना (मर्दना), यमलार्जुनभंजका महाशकुनिपूतनारिपवः, कंसमुकुटमोटका, जरासन्धमानमथनाः, तैश्च अविरलसमसहितचन्द्रमंडलसमप्रभः सूरमरीचिकवचं विनिमुद्भिः , सप्रतिदंडैर् आतपत्र र ध्रियमाणैर् विराजमानाः, तैश्च प्रवरगिरिकुहरविहरणसमुद्धतैर् निरुपहतचमरपश्चिमशरीरसंजातैर् अमलिनसितकमलविमुकुलोज्ज्वलितरजतगिरिशिखरविमलशशिकिरणसदृशकलधौतनिर्मलैः पवनाहतचपलचलितसललितप्रवृत्त(प्रतित) वीचिप्रसृतक्षीरोदकप्रवरसागरोत्पूरचंचलैर् मानससरःप्रसरपरिचितावासविशदवे