________________
३००
श्री प्रश्नव्याकरण सूत्र
समूहम्, ऋद्धिरससातगौरवापहारगृहीतकर्मप्रतिबद्धसत्त्वाकृष्यमाणनिरयतलहुत्त (अभिमुख) - सन्नविषण्णबहुलम् अरतिरतिभयविषादशोर मिथ्यात्वशैलसंकटम्, अनादिसन्तानकर्मबन्धनक्लेशकर्दमसुदुरुत्तारम्, अमरनरतिर्य निरयगतिगमनकुटिलपरिवर्तनविपुलवेलम्, हिंसालीकादत्ता ानमैथुनपरिग्रहारम्भकरणकारणानुमोदनाष्टविधानिष्टकर्मपिडितगुरुभाराऽऽ - क्रान्तदुर्गजलौघदूरनिबोल्यमानोन्मग्ननिमग्नदुर्लभतलम्, शारीरमनोमयानि दुखानि उत्पिबन्तः, सातासातपरितापनमयमुन्मग्ननिमग्नत्वं कुर्वन्तश्चतुरन्तमहान्तम्, अनवदनम्, रुद्रम्, संसारसागरम्, अस्थितम्, अनालम्बनम्, अप्रतिष्ठानम्, अप्रमेयम्, चतुरशीतियोनिशतसहस्रगुपिलम्, अनालोकान्धकारम, अनन्तकालम्, नित्यम्, उत्त्रस्तशून्यभयसंज्ञासंप्रयुक्ता वसन्ति संसारसागरम् उद्विग्नावासवसतिम् । यत्रायुष्कं निबध्नन्ति पापकर्मकारिणो बान्धवजनस्वजन-मित्र-परिवजिता अनिष्टा भवन्ति अनादेयदुविनीताः,कुस्थाना-नकुशय्याः, कुभोजना,अशुचयः (अश्रुतयः), कुसंहनन-कुप्रमाणकुसंस्थिताः कुरूपा, बहुक्रोधमानमायालोभा, बहुमोहा,धर्मसंज्ञासम्यक्त्व परिभ्रष्टा,दारिद्र्योपद्रवाभिभूता, नित्यं परकर्मकारिणो,जीवनार्थरहिताः, कृपणाः, परपिंडतर्कका, दुःखलब्धाहारा, अरसविरसतुच्छकृतकुक्षिपूराः, परस्य प्रेक्षमाणा, ऋद्धिसत्कारभोजनविशेषसमुदयविधि निन्दत आत्मानं कृतान्तं च परिवदन्त इह च पुराकृतानि कर्माणि पापकानि विमनसः, शोकेन दह्यमानाः, परिभूता भवन्ति, सत्त्वपरिजिताश्च छोभाः (निःसहायाः क्षोभणीया वा),शिल्पकलासमयशास्त्रपरिवजिता, यथाजातपशुभूता, अप्रतीताः (अप्रतीत्युत्पादकाः), नित्यं नीचकर्मोपजीविनो, लोककुत्सनीया, मोघमनोरथा, निराशा-(निरास) बहुला, आशापाशप्रतिबद्धप्राणा, अर्थोपादानकामसौख्ये च लोकसारे भवन्त्यफलवन्तश्च, सुष्ठ अपि उद्यच्छन्तः (उद्यमवन्तः ।, तदिवसोद्य क्तकर्मकृतदुःखसंस्थापितसिपिंडसंचयाः, प्रक्षीणद्रव्यसारा नित्यं अध्र वधनधान्यकोशपरिभोगविवर्जिता, रहितकामभोगपरिभोगसर्वसौख्याः परश्रीभोगोपभोगनिश्राणमार्गणपरायणा, वराका, अकामिकया विनयन्ति दुःखं, नैव सुखं नैव निर्वृतिमुपलभंते, अत्यन्तविपुलदुःखशतसंप्रदीप्ताः परस्य द्रव्येभ्यो येऽविरताः।
एष स अदत्तादानस्य फलविपाकः, इहलौकिकः, पारलौकिकः, अल्पसुखो, बहुदुःखो, महाभयो, बहुरजःप्रगाढो, दारुणः,कर्कशः,असातो, वर्षसहस्रर्