________________
तृतीय अध्ययन : अदत्तादान-आश्रव
२६६
संस्कृतच्छाया तत्र व मृता अकामका बद्ध्वा पादयोराकृष्टाः खातिकायां क्षिप्तास्तत्र च वृकशुनकगालकोलमार्जारवृन्द (चंड) सन्दशकतुडपक्षिगणविविधमुखशतविलुप्तगात्राः कृतविभागाः, केचित् कृमिवन्तश्च कुथितदेहा अनिष्टवचनैः शाप्यमानाः—'सुष्ठु कृतं यन्मृतः पाप' इति तुष्टेन जनेन हन्यमाना लज्जापनकाश्च भवन्ति स्वजनस्यापि च दीर्घकालं, मृताः सन्तः,पुनः परलोकसमापन्ना नरके गच्छन्ति निरभिरामे, अंगारप्रदीप्तककल्पात्यर्थशीतवेदनाऽसातोदीर्णसततदुःखशतसमभिद्र ते । ततोऽप्युद्धृताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनिम् । तत्राऽपि निरयोपमां अनुभवन्ति वेदनां तेऽनन्तकालेन । यदि नाम कथंचिद् मनुजभावं लभन्ते नैकेषु निरयगतिगमनतिर्यग्भवशतसहस्रपरिवर्तेषु तत्रापि भवन्त्यनार्या नीचकुलसमुत्पन्नाः । आर्यजनेऽपि लोकबाह्याः तिर्यग्भूताश्च अकुशलाः कामभोगतृषिता यत्र निबध न्ति निरयति वप्रपंचकरणप्रणोदीनि पुनरपि संसारावर्त्तनिमीमूलानि धर्मश्रुतिविजिता अनार्याः क्रूरा मिथ्यात्वश्रुतिप्रपन्नाश्च भवन्ति एकान्तदंडरुचयो वेष्टयन्तः कोशिकाकारकोट इव आत्मानम् अष्टकर्मतन्तुघनबन्धनेन । एवं नरकतिर्यग्नरामरगमनपर्यन्तचक्रवालं जन्मजरामरणकरण गंभीरदुःखप्रक्षुभितप्रचुरसलिलं, संयोगवियोगवीचीचिन्ताप्रसंगप्रसृतवधबंधमहाविपुलकल्लोलकरुणविलपितलोभकलकलायमानबोलबहलम, अवमाननफेनं, तीव्रखिसन (निन्दा) निरन्तरप्रभृतरोगवेदनापराभवविनिपातपरुषघर्षणसमापतितकठिनकर्मप्रस्तरतरंगरंगन्नित्यमृत्युभयतोयपृष्ठं, कषायपातालसंकुलं, भवशतसहस्रजलसंचयं, अनन्तम्, उद्वेगजनकम्, अनर्वाक्पारं, महाभयं, भयकरं, प्रतिभयम्, अपरिमितमहेच्छकलुषम्, अतिवायुवेगोद्धन्यमानाशापिपासापाताल - कामरतिरागद्वेषबंधनबहुविधसंकल्पविपुलदकरजोरयोऽन्धकारम्, मोहमहावर्त्तभोगभ्राम्यद्गुप्यदुच्छलबहुगर्भवासप्रत्यवनिवृत्तपानीयं,प्रधावितव्यसनसमापन्नरुदितचंडमारुतसमाहतामनोज्ञवीची - व्याकुलितभंगस्फुटदनिष्टकल्लोलसंकुलजलं, ' प्रमादबहुचंडदुष्टश्वापदसमाहतोद्धावत्पूरघोरविध्वंसानर्थबहुलम्, अज्ञानभ्राम्यन्मत्स्यपरिहस्तं (दक्षं), अनिभृतेन्द्रियमहामकर - त्वरितचरितचोक्ष भ्यमाणसंतापनित्यक (निचय) - चलच्चपलचंचलात्राणाशरणपूर्वकृतकर्मसंचयोदोर्णवय॑वेद्यमानदुःखशतविपाकघूर्णज्जल