________________
श्री प्रश्नव्याकरण सूत्र
(निष्ठुर ) - महाराष्ट्र-मौष्टिक आरब-डो (डु) बिलक-कुहण ( कुहुण ) - केकयहूण - रोमक - रुरु-मरुकाश्चिलातविषयवासिनश्च पापमतयः ।
जलचर- स्थलचर- सनखपदोरग खेचर- संदंश-तुण्डजीवोपघातजीविनः संज्ञिनोऽसंज्ञिनश्च पर्याप्ता अपर्याप्ताश्चाशुभलेश्यापरिणांमा एते अन्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणम् ।
पापा: पापाभिगमा ( पापमतयः ) पापरुचयः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणवधकथासु अभिरममाणास्तुष्टाः पापं कृत्वा (सुखमिति) भवन्ति च बहुप्रकारम् ।
तस्य च पापस्य फलविपाकमजानन्तो वर्धयन्ति महाभयामविश्रामवेदनां दीर्घकालबहुदुःखसंकटां नरकतिर्यञ्चयोनिम् । इत आयुःक्षये च्युता अशुभकर्मबहुला उत्पद्यन्ते नरकेषु त्वरितं महालयेषु वज्रमय - कुड्य - रुन्दनिस्सन्धि-द्वारविरहित-निर्मार्दव भूमितल खरामर्श विषम निरयगृहचारकेषु महोष्ण सदाप्रतप्त-दुर्गन्ध - विश्रोद्व गजनकेषु बीभत्सदर्शनीयेषु च नित्यं हिमपटलशीतलेषु कालावभासेषु च भीमगम्भीरलोमहर्षणेषु निरभिरामेषु निष्प्रतीकारव्याधिरोगजरापीडितेषु अतीवनित्यान्धकार तिमिस्र षु प्रतिभयेषु व्यपगत-ग्रह-चन्द्र-सूर्य-नक्षत्र ज्योतिष्केषु मेदो वसा-मांसपटलातिनिविड़पूय(त) रुधिरोत्कीर्णविलीनचिक्कणरसिका व्यापन्न कुथित चिक्खिलकर्दमेषु कुकूलानलप्रदीप्तज्वाला - मुर्मुराऽसिक्षर - करपत्रधारा सुनिशित वृश्चिकदंशविनिपातौपम्य स्पर्शातिदुःसहेषु च अत्राणाशरणकटुकवु खपरितापनेषु अनुबद्धनिरन्तर वेदनेषु यमपुरुषसंकुलेषु ।
७०
-
तत्र चान्तर्मुहूर्त्तलब्धिभवप्रत्ययेन निर्वर्त्तयन्ति तु ते शरीरं हुण्ड बीभत्सदर्शनीयं भापनकमस्थिस्नायुनखरोमर्वाज्जतमशुभकं दुःखविषह ततश्च पर्याप्तिमुपगता इन्द्रियैः पंचभिर्वेदयन्ति वेदनां अशुभया वेदनयाउज्ज्वलबल- विपुल-कर्कश-खरस्पर्श - प्रचण्ड-घोर भीषणकदारुणया कि तत् ? कन्दु- महाकुम्भी1-पचन-प्रज्वलन तपक- तलन- - भ्राष्ट्रभर्जनानि च लोहकटाहोक्वथनानि च कोट्ट (क्रीडा) बलिकरणकोट्टनानि, शाल्मलितीक्ष्णाग्रलोहकंटकाभिसरणापसरणानि स्फाटनविदारणानि च अवकोट्ट (ट) कबन्धनानि यष्टिशतताड़नानि च गलकंबलोल्लंबनानि (ल्लुंठनानि) शूलाग्रभेदनानि च आदेशप्रवं (पं) चनानि खिसनविमाननानि विघुष्टप्रणयनानि वध्यशतमातृकाणि चैवं ते ।
पदार्थान्वय- (ते) वे हिंसक ( कयरे) कौन-कौन हैं ?, (जे) जो हिंसक हैं, (ते) वे आगे कहे अनुसार हैं - ( सोयरिया) सूअर का शिकार करने वाले, (मच्छबंधा)