________________
९६५
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
२१ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्याऽस्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥ प्रियेषु स्वेषु सुकृतं अप्रियेषु च दुष्कृतम् । विसज्य ध्यानयोगेन ब्रह्माप्येति सदातनम् ॥ यावद्यावन्मुनिश्रेष्ठ स्वयं संसज्यतेऽखिलम् । तावत्तावत्परा लोकाः परमात्मैव शिष्यते ॥ यत्रयत्र मृतो ज्ञानी परमाक्षरवित्सदा । परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ यद्यत्स्वाभिमतं वस्तु तत्त्यजेन्मोक्षमश्नुते । असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यथा ॥ सर्व सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ ९६६ ज्ञातज्ञेयस्संप्रणम्य सद्रोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तवन्धनः ॥ गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पारयन् वसुधां सर्वां विचचार निरुत्तरः॥ इसाचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं ममुक्षूणां मुखबोधोपपत्तये ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितस्सताम् ॥ श्रीमद्भिर्भगवत्पादैः आइसायं मुमुक्षुभिः । श्रोतव्यो दर्शनीयश्च पठनीयश्च सर्वदा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्करभगवत्पादकृतौ सर्व वेदान्तसिद्धान्त
सारसंग्रहस्संपूर्णः.
९६८
९६९
९७०