________________
भात्मबोधः. यद्भासा भासतेऽर्कादि भास्यैर्यत्तु न भास्यते । येन सर्वमिदं भाति तद्ब्रह्मेसवधारयेत् ॥ ६१ ॥ स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निमतप्तायसपिण्डवत् ॥ ६२ ॥ जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किं चन । ब्रह्मान्यद्गाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ॥ दृश्यते श्रूयते यद्यत् ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४॥ . सर्वगं सच्चिदानन्दं ज्ञानचक्षुनिरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥६५॥ श्रवणादिमिरुद्दीतज्ञानाग्निपरितापितः ।। जीवस्सर्वमलान्मुक्तः स्वर्णवद्दयोतते स्वयम् ॥ ६६ ॥ हृदाकाशोदितो ह्यात्मा बोधमानुस्तमोऽपहृत् । सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥६॥ दिग्देशकालाधनपेक्ष्य सर्वगं
__ शीतादिहृन्निससुखं निरअनम् । यस्स्वात्मतीर्थं भजते विनिष्क्रियः
स सर्ववित् सर्वगतोऽमृतो भवेत् ॥ ६८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतं
आत्मबोधप्रकरणं समाप्तम्.
सर्व प्रकाशते.