________________
२०४
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
आसनं तद्विजानीयात् इतरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ निरोधस्सर्ववृत्तीनां प्राणायामस्स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यस्समीरणः ॥ ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्चल्यकुम्भकः प्राणसंयमः ॥
अयं चापि प्रबुद्धानां अज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ प्रत्याहारस्स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्रयत्र मनो यांति ब्रह्मणस्तत्र दर्शनात् ॥ मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ वृत्तिविस्मरणं सम्यक् समाधिर्ध्यानसंज्ञिकः ।
८९२
एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विघ्नानेतान् परिसक्त्वा प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥
८९३
८९४
८९५
८९६
८९७
८९८
समाधिविघ्नाः.
समाधौ क्रियमाणे तु विना ह्यायान्ति वै बलात् ॥ ८९९
अनुसन्धानराहित्यं आलस्यं भोगलालसम् । भयं तमश्च विक्षेपः तेजस्पन्दश्च शून्यता ॥
८९०
८९१
शिष्यस्य स्वानुभवः.
इति गुरुवचनाच्छ्रुतिप्रमाणात्परमवगम्य सतत्त्वमात्मयुक्तया ।