SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ प्रमाणसंशयो यावत् स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत् तावत्तु श्रुतियुक्तिभिः ॥ आत्मयाथार्थ्य निश्चित्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावत् न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता । यावन्न तर्केण निरासितोऽपि दृश्यप्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षोः ध्यानादि सम्यक्करणीयमेव ॥ ७९७ सविकल्पसमाधिः. ७९६ सं विकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिस्तविकल्पस्य लक्षणं वच्मि तज्छृणु ॥ ज्ञात्राद्यविलयेनैव ज्ञेयब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ सद्भिस्स एव विज्ञेयः समाधिस्तविकल्पकः । मृद एवावमानेऽपि मृण्मयद्विपभानवत् ॥ सन्मात्र वस्तुभानेsपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ निर्विकल्पसमाधिः. ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पस्स्यात् समाधिर्योगसंज्ञितः ॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ्क भाति किन्न्वम्भ एकमेवावभासते ॥ १९५ ७९३ ७९४ ७९५ ७९८ ७९९ ८०० ८०१ ८०२ ८०३
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy