________________
देवीपुराणम्
ब्रह्मोवाच । मया पूर्वं च' त्वं देव उक्तमासोज्जनार्दन । असुराणां वरः श्रेष्ठो न देयो मधुसूदन ॥१३॥ लब्धवरा मदोद्र कादसुराः सुर-बाधकाः । भवन्ति देवदेवानां द्विज-यज्ञ -विनाशकाः ॥१४॥ तथाप्येवं महावाहो ! विनाशायासुरस्य च । चिन्त्यतां ब्रह्मन् गोविन्दो' वाचस्पतिबृहस्पतिः ॥१५॥
ब्रह्मोवाच । त्वमेव सर्ववेत्तासि तथापि सुरसत्तम । कार्यागतन्तु वक्तव्यं नहि दोषस्त्रिविक्रमम् ॥१६॥ तद्भवेत् तत्पुरा कल्पे भौत्ये मन्वन्तरे हरे । देवदेवो महादेवो योऽसौ परमकारणः ॥१७॥ स्वर्गः सर्वव्यापी च अनादि-निधनः शिवः । तस्येच्छार्थं सुराध्यक्ष स्थितः पालयिता प्रभुः ॥१८॥ सुतः कालाग्निरुद्रस्य रुद्रपाषाणमूर्धनि । तस्मिन् हालाहलो नाप्न महाबल-पराक्रमः ॥१६॥ उपनेतात्मजं घोरं द्वितीयमिव पावकम् । तं सम्प्रेक्ष्य तदा देव मुद्गरेण हतं त्वया ॥२०॥ प्रबुद्धोऽसौ तदा बह्निः शुद्धक्रोधेन दोपितः । तस्य निश्वासजा ज्वाला निर्गतास्तु दिशो दश ॥२१॥ तदा त्वं मोहसम्पन्नो मम शङ्का तदाभवत् । मया सञ्चिन्तितो रुद्रः खट्वाङ्ग-करभास्करः ॥२२ स च करणसद्भावो ध्यान-सिद्धि-वरप्रदः । प्रेषयामास चामुण्डां कालानलसमप्रभाम ॥२३॥ रक्षणाय तवास्माकं हुताशनशमाय च । तस्याः प्रेक्षणमात्रण'१ सा च ज्वाला शमं गता ।२४। तदासौ वदते देवं हालाहल हुताशनः । कथ्यतां कारणं विष्णो येनाहं ताडितस्त्वया ॥२५॥
त्वया च याचितो देव जगाम तं हुतावहम् । पूर्णः संवर्त्तते कालो मां ब्रह्मस्य च पावकः ॥२६॥ तेन वोधितवान्१४ रुद्रो योऽसौ कालारिन-विश्रुतः। वदतो कारणं हि येन त्वं मम क्षोभकः ॥२७॥ .
१. पूर्वेव क ग।
२. ब्रह्मगोविन्दौ ग। ३. पुरुषोत्तम क ग ।
४. कार्यगतं क।
५. उत्तरे तु क। ६. प्रजाः क ।क्रुद्धर क्रोधेन दीपितः । तपसे स्थितौ पालयिता प्रजा ग पुस्तके । ७. गतः क ग। ८. वज्रपाषाण क ग ।
६. महा क महा भवेत्-ग । १०. भासुरः क ग . ११. सात्राय ख।
१२. त्वया चक। १३. जयमेऽस्तु तदावह इति खपुस्तके । जगदेकं तदावह क ग।
१४. रोचितवान् क।