________________
षष्ठोऽध्यायः ।
- ब्रह्मोवाच । नमस्ते विश्वरूपेश' विश्वभाव नमोऽस्तु ते । सर्वदेवमय श्रीमन् वासुदेव नमोऽस्तु ते ॥१॥ भूत-भव्य-भविष्याणां कारणाकारणौ नमः । अनादिरादि-मध्यान्त-परकारण-कारण ।
. भविष्यरूप सद्भाव मत्स्यरूपं नमोऽस्तु ते ॥२॥ धात्री-धरण कूर्मेश वराह नरसिंहराट् । सर्ववेदपतेवेद्य वेदान्तान्त नमो नमः ॥३॥ वामनाय नमस्तुभ्यं रामराम नमो नमः । वासुदेव' नमस्तुभ्यं कृष्णदेव नमो नमः ॥४॥ शुद्ध-सद्भाव-भावाय शुद्ध-बुद्ध-तनूभव । रागद्वेषविनिर्मुक्तो रक्तवासो नमोऽस्तु ते ॥५॥ अश्वारूद महोबाहो कलिधर्म-प्रवर्तक । दिगम्बरधरो देव शूद्रधर्मप्रवर्तक ॥६॥ म्लेच्छवर्गकुलोच्छेद नमस्ते कल्किरूपिणे । युगान्तः युग-उत्पत्ति-युगधर्म-प्रवर्तक ॥७॥ नमस्ते देवदेवेश ! ईप्सितार्थ-प्रदायक । यदिच्छामि भवेत् त्वत्तो मम देव तथैव च ॥८॥ मम कार्येषु कार्याणामीप्सितानां सुरोत्तम । भविष्याणाश्च वस्तूनां साहाय्यं कुरु केशव ॥६॥ ततस्तुष्टो मम विष्णुः पुरा प्रासीत् सुराधिप । वरदोऽभूद् यथाकामं साहाय्य मीप्सितेषु च ॥१०॥
___ एवं यो वैष्णवं स्तोत्र प्रातरुत्थाय भावयेत् ।
मध्याह्न सन्ध्याकाले च तस्येच्छा कामसिद्धिदा ॥११॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां सुखार्थी सुखभाग् भवेत् ॥१२॥
इति श्री देवीपुराणे देव्यवतारे विष्णुस्तवः समाप्तः' ।
१. विश्वदेवेश क
२. सर्वदेवपते-ग। ४. रामाय च क । ५. रामदेव क ग। ७. कपिलतनु-ग। ८. भवन्त ते-क ग। १०. विष्णुस्तव:-इत्येव ग पुस्तके ।
३. नमोऽस्तुते क।
६. रक्तवास ग। ६. इत: परमध्यायान्ते-विष्णुस्तवः इत्येव पाठः क ।